________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.८/९
तत्त्वार्थवृत्ती तत्र तावद् दर्शनमोहनीयं त्रिभेदं निरूपयति-सम्यक्त्वमिथ्यात्वतदुभयानि । सम्यक्त्वच मिथ्यात्वञ्च तदुभयञ्च सम्यक्त्वमिथ्यात्वतदुभयानि तत्त्रिविधमपि दर्शनमोहनीयं बन्धं प्रति एक भूत्वा सत्कर्मापेक्षया कर्मसत्तामात्रापेक्षया द्रव्यरूपेण त्रिविधं व्यवतिष्ठते । शुभपरिणामसंरुद्धनिजरसम् , कोऽर्थः ? शुभपरिणामनिराकृतफलदानसामर्थ्य मिथ्यात्वमेवोदासीनत्वेन स्थितमा५ त्मनः श्रद्धानं नैव निरुणद्धि मिथ्यात्वउच्च वेदयमानमात्मस्वरूपं लोकमध्ये आत्मानं सम्यग्दृष्टि
ख्यापयत् सम्यक्त्वाभिधेयं मिथ्यात्वमुच्यते। यदि सम्यक्त्वं नाम दर्शनमोहनीयमीदृशं वर्तते तर्हि मिथ्यात्वं नाम दर्शनमोहनीयं कीदृशमिति चेत् ? उच्यते; यदुदयात् सर्वज्ञवीतरागप्रणीतसम्यग्दर्शनज्ञानचारित्रलक्षणोपलक्षितमोक्षमाग 'पराङ्मुखः सन्नात्मा तत्वार्थश्रद्धाननिरुत्सुकः
तत्त्वार्थश्रद्धानपराङ्मुखः अशुद्धतत्त्वपरिणामः सन् हिताहितविवेकविकलः जडादिरूपतयाऽव१० तिष्ठते तन्मिथ्यात्वं नाम दर्शनमोहनीयमुच्यते । तर्हि तदुभयं किं कथ्यते ? मिथ्यात्वमेव सामि
शुद्धस्वरसम् , ईषन्निराकृतफलदानसामर्थ्य सम्यग्मिथ्यात्वापरनामधेयं तदुभयमुच्यते । सामि... शब्द ईषदर्थे वर्तते । अर्धार्थ इति केचित् । तेन सामिशुद्धस्वरसमिति कोऽर्थः ? ईषत्प्रक्षालितार्द्धप्रक्षालितकोद्रववत् क्षोणाक्षीणस्वरसमित्यर्थः।
अथ चारित्रमोहनीयस्य को द्वौ भेदौ ? अकषायकषायौ । अकषायश्च कषायश्च १५ अकषायकषायौ । अकषाय इति कोऽर्थः १ ईषत्कषाय अकषायवेदनीयमित्यर्थः । तस्य नव
भेदा भवन्ति । ते के नव भेदाः ? हास्यरत्यरतिशोकमयजुगुप्सास्त्रीपुंनपुंसकवेदाः । हास्यञ्च .. रतिश्चारतिश्च शोकश्च भयञ्च जुगुप्सा च स्त्रीवेदश्च पुंवेदश्च नपुंसकवेदश्च हास्यरत्यरति
शोकमयजुगुप्सास्त्रीपुंनपुंसकवेदाः। तत्र हास्यं वर्करादिस्वरूपं यदुदयादाविर्भवति तद्धास्यम् ।
बदुदयाद्देशपुरग्राममन्दिरादिषु तिष्ठन् जीवः परदेशादिगमने च औत्सुक्यं न करोति सा रति२० रुच्यते । रतेविपरीता अरतिः । यदुदयाद् अनुशेते शोचनं करोति स शोक उच्यते । यदुदयात्
त्रासलक्षण उद्वेग उत्पद्यते तद् भयमुच्यते । यदुदयात्परदोषानाविष्करोति आत्मदोषान् संवृणोति सा जुगुप्सा कथ्यते । यदुदयास्त्रीपरिणामानङ्गीकरोति स स्त्रीवेदः । यदुदयात् पुंस्त्वपरिणामान प्राप्नोति स पुंवेदः। यदुदयानपुंसकभावान् प्रतिपद्यते स नपुंसकवेदः । उक्त त्रिवेदानां लक्षणम्
"श्रोणिमार्दवभीतत्वमुग्धत्वक्लीबतास्तनाः । पुंस्कामेन समं सप्त लिङ्गानि स्त्रैणसूचने ॥ "खरत्वं मोहनं स्ताब्ध्यं शौडीय श्मश्रुधृष्टता । स्त्रीकामेन समं सप्त लिङ्गानि नरवेदने ॥
१ मोक्षसन्मार्ग- भा०, ज, द० । २ -श्रद्धानप्रत्यनीकः आ०, द०, ज० । ३ -गमनेन औ- भा०, द०, ज० । ४ स्वरसंमोहनम् आ०, ९०, ज० ।
For Private And Personal Use Only