________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८८-९] अष्टमोऽध्यायः
२६५ “थीणुदयेणुढविदो सोवदि कम्मं करेदि जप्पदि य । णिहाणिदुदयेण य ण दिडिसुग्धादिदु सक्को । पयलापयलुदयेण य वहेदि लाला चलंति अंगाई। गिद्दुदये गच्छंतो ठाइ पुणो वहसदि पडेई । पयलुदयेण य जीवो ईसुम्मीलिय सुवेदि सुत्तोवि । ईसं ईसं जाणइ मुहूं मुहं सोवदे मंदं ॥" [गो० क० गा० २३-२५] अथ वेदनीयोत्तरप्रकृती आवेदयति
सदसवेद्ये ॥८॥ सच्च असच्च सदसती ते च ते वेचे सदसवेंधे। सद्वेचं प्रशस्तं वेद्यम् असद्वेद्यमप्रशस्तं वेद्यम् । यदुदयाद् देवमनुष्यतिर्यम्गतिषु शारीरं मानसश्च सुखं लभते तद्भवति सद्वेद्यम् । १० यदुदयान्नरकादिगतिषु शारीरमानसादिदुःखं नानाप्रकारं प्राप्नोति तदसवेद्यम् । एते तृतीयस्याः प्रकृतेढे उत्तरप्रकृती भवतः ।
अथ मोहनीयप्रकृतेरुत्तरप्रकृतीनिरूपयतिदर्शनचारित्रमोहनीयाकषायकषायवेदनीयाख्यास्त्रिदिनवषोडशभेदाः सम्य
त्वमिथ्यात्वतदुभयान्यकषायकषायौ हास्यरत्यरतिशोकभयजुगु. १५ प्सास्त्रीपुंनपुंसकवेदा अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्या
नसज्वलनविकल्पाश्चैकशः क्रोधमानमायालोभाः ॥९॥
मोहनीयशब्दः प्रत्येकं प्रयुज्यते । तेनायमर्थः-दर्शनमोहनीयञ्च चारित्रमोहनीयब्च । वेदनीयशब्दश्च प्रत्येकं प्रयुज्यते । तेनायमर्थः-अकषायवेदनीयञ्च कषायवेदनीयञ्च । दर्शनचारित्रमोहनीयाकषायकषायवेदनीयानि तानि आख्या नामानि यासां मोहनीयोत्तरप्रक- २० तीनां ताः दर्शनचारित्रमोहनीयाकषायकषायवेदनीयाख्याः। मोहनीयस्य कर्मणश्चतस्र उत्तरप्रकृतय एवं भवन्ति । कथम्भूतास्ताश्चतस्रोऽपि ? त्रिद्विनवषोडशभेदाः । भेदशब्दः प्रत्येकं प्रयुज्यते । तेनायमर्थः-त्रिभेदाश्च द्विभेदे च नवभेदाश्च षोडशभेदाश्च यासां चतुर्णामुत्तरप्रकतीनां ताखिद्विनवषोडशभेदाः। अस्य विशेषणस्यायमर्थ:-दर्शनमोहनीयं त्रिभेदं चारित्रमोहनीयं द्विभेदम् अकषायवेदनीयं नवभेदं कषायवेदनीयं षोडशभेदमिति यथासङ्ग्रथं वेदितव्यम् । २५
१ त्यानगृयुदयेन उत्थापिते स्वपिति कर्म करोति जल्पति च । निद्रानिद्रोदयेन च न दृष्टिमुद्घाटयितुं शक्यः ।। प्रचलाप्रचलोदयेन च वहति लाला चलन्ति अङ्गानि । निद्रोदये गच्छन् तिष्ठति पुनः वसति पतति ।। प्रचलोदयेन च जीव ईषदुन्मील्य स्वपिति सुप्तोऽपि । ईषदीपज्जानाति मुहुर्मुहुः स्वपिति मन्दम् ।। २ प्रत्येक प्रत्येक प्र- आ०, ज०, द० ।
For Private And Personal Use Only