SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६४ तत्त्वार्थवृत्तौ [ ८७ चेत् ; तर्हि अभव्यः कथमुच्यते ? यदि न वर्तते; तर्हि मनःपर्ययज्ञानावरणं केवलज्ञानावरणञ्चेत्यावरणद्वयं तत्र वृथैवोच्यते ? युक्तमुक्तं भवता; आदेशवचनान्न तत्र दोषो वर्तते। किं तक्षादेशवचनम् ? द्रव्यार्थिकनयस्यादेशान्मनःपर्ययकेवलज्ञानशक्तिरस्त्येव, पर्यायार्थिकनयस्या देशान्मनःपर्ययकेवलज्ञानशक्तिद्वयमभव्ये न वर्तते । एवञ्चेत्तर्हि भव्याभव्यविकल्पद्वयं न सङ्ग५ च्छते तद्वयोरपि तच्छक्तिसम्भवात् ? सत्यम्; शक्तिसद्भावापेक्षया भव्याभव्यविकल्पो न वर्तेते । किं तर्हि ? व्यक्तिसम्भवासम्भवापेक्षया भव्याभव्यौ स्तः । सम्यग्दर्शनज्ञानचारित्रैर्यस्य जन्तोः व्यक्तिर्भविष्यति स भवति भव्यः । यस्य तु सम्यग्दर्शनज्ञानचारित्रैर्व्यक्तिर्न भविष्यति स अभव्य इत्युच्यते कनकपाषाणान्धपाषाणवत् । यथा कनकपाषाणस्य कनकं व्यक्तं भवति इतरपाषाणस्य तु शक्तिरूपेण विद्यमानमपि कनकं व्यक्तं न भवति । १० अथ दर्शनावरणस्य का नवोत्तरप्रकृतयः इत्यनुयोगे सूत्रमुच्यते स्वामिना चक्षुरचक्षुरवधिकेवलानां निद्रा-निद्रानिद्राप्रचला प्रचलाप्रचलास्त्यानगृद्धयश्च ॥७॥ चक्षुश्च लोचनद्वयम् । अचक्षुश्च अपरेन्द्रियाणि अवधिश्च अवधिदर्शनम् , केवलञ्च केवलदर्शनं चक्षुरचक्षुरवधिकेवलानि तेषां चक्षुरचक्षुरवधिकेवलानाम् । एतेषां चतुणी दर्शना१५ नामावरणानि चत्वारि भवन्ति चक्षुर्दर्शनावरणम् अचक्षुर्दर्शनावरणम्, अवधिदर्शनावरणं केवलदर्शनावरणश्चेति । तथा निद्रा च निद्रानिद्रा च प्रचला च प्रचलाप्रचला च स्त्यानगृद्धिश्च निद्रानिद्रानिद्राप्रचलाप्रचलाप्रचलास्त्यानगृद्धयः एताः पञ्च निद्रा दर्शनावरणानि पञ्च भवन्ति समुदितानि तु नव स्युः । चकारश्चतुर्भिः पञ्चभिश्च आवरणैः समुच्ची यते । तत्र तावन्निद्रालक्षणम्-'मदखेदलमविनाशार्थं स्वपनं निद्रा उच्यते । निद्रावान् २० पुमान् सुखेनैव जागर्यते । निद्रायाः पुनःपुनः प्रवृत्तिनिद्रा कथ्यते । निद्रानिद्रावान् पुमान् दुःखेन प्रतिबोध्यते । यत्कर्म आत्मानं प्रचलयति सा प्रचलेत्युच्यते । प्रचलावान् पुमान उपविष्टोऽपि स्वपिति, शोकश्रममद खेदादिभिः प्रचला उत्पद्यते सा नेत्रगात्रविक्रियाभिः सूच्यते । प्रचलैव पुनः पुनरागच्छन्ती प्रचलाप्रचला उच्यते । यस्यां बलविशेष प्रादुर्भावः स्वप्ने भवति सा स्त्यानगृद्धिरुच्यते । धातूनामनेकार्थत्वात् स्त्यायतिर्धातुः २५ स्वपनार्थ इह वेदितव्यः । गृद्धिरपि दीप्त्यर्थे शातव्यः । तेनायमर्थः-स्त्याने स्वप्ने गृद्धयति दीप्यते यो निद्राविशेषः सा स्त्यानगृद्धिरित्युच्यते । स्वप्नदोप्तिरिति यावत् । दीप्तिरपि किम् ? तेजःसंधुक्षणमित्यर्थः । यदुदयाज्जीवो बहुतरं दिवाकृत्यं रौद्रं कर्म करोति सा स्त्यानगृद्धिरुच्यते । निद्रादीनां कारणानि आवरणरूपाणि कर्माणि वेदितव्यानि । उक्तश्च १ -मदस्वेद- भा०, द० । २ -जागर्ति आ०, द०, ज० । ३ -मदस्वेदा- आ०, द०। ४-स्वयमेव भ- आ०, द०, ज० । For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy