________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८५-६] अष्टमोऽध्यायः
२६३ गुरुतामक्तादहर्दिशम्" नमयत्यात्मानमिति नाम नम्यते वात्माऽनेनेति नाम। गूयते शब्दयते उच्चो नीचश्चेत्यनेन गोत्रम् । दातृपात्रयोदयादेययोश्च अन्तरं मध्यम् एति गच्छतीत्यन्तरायः । ज्ञानच दर्शनकच ज्ञानदर्शने ज्ञानदर्शनयोरावरणे . ज्ञानदर्शनावरणे ज्ञानावरणं दर्शनावरणञ्चेत्यर्थः। ते च वेदनीयञ्च मोहनीयश्च आयुश्च नाम च गोत्रञ्च अन्तरायश्च ज्ञानदर्शनावरणवेदनीयमोहनीयायुर्नामगोत्रान्तरायाः । एते अष्टो मिलित्वा आद्यः ५ प्रकृतिबन्धो भवति । आत्मपरिणामेन केवलेन सह्यमाणाः पुद्रलाः ज्ञानावरणादिबहुभेदान् प्राप्नुवन्ति एकवारभुक्तभोजनपरिणामरसासृङ्मांसमेदोऽस्थिमज्जाशुक्रवत् अनेकविकारसमर्थवातपित्तश्लेष्मखलरसलालाभाववच्च । कर्मसामान्यादेकं कर्म। पुण्यपापभेदात् द्विधा कर्म । प्रकृतिस्थित्यनुभागप्रदेशभेदाच्चतुर्धा कर्म । ज्ञानावरणादिभेदादष्टधा कर्म, इत्यादि संख्येयासंख्येयानन्तभेदश्च कर्म भवति । २ मूलप्रकृतिबन्धोऽष्टविधः प्रोक्तः ।
अथेदानोमुत्तरप्रकृतिबन्धः कतिप्रकार इति प्रश्ने सूत्रमिदमुच्यतेपञ्चनवद्वथष्टाविंशतिचतुर्विचत्वारिंशद्विपञ्चभेदा यथाक्रमम् ॥५॥
भेदशब्दः पञ्चादिभिः शब्दः प्रत्येकं प्रयुज्यते । तेनायमर्थः-पञ्चभेदं ज्ञानावरणीयं नवभेदं दर्शनावरणीयं द्विभेदं वेदनीयम् अष्टाविंशतिभेदं मोहनीयं चतुर्भेदमायुः द्विचत्वारिंशद्भेद नाम द्विभेदं गोत्रं पञ्चभेदोऽन्तरायः। पञ्चभेदञ्च नवभेदश्च द्विभेदश्च अष्टा- १५ विंशतिभेदश्च चतुर्भेदश्च द्विचत्वारिंशभेदश्च द्विभेदश्च पञ्चभेदश्च पञ्चनवद्व-यष्टाविंशतिचतुचित्वारिंशद्विपञ्चभेदाः। एते भेदाः अष्टप्रकारस्य प्रकृतिबन्धस्य यथाक्रममनुक्रमेण भवन्ति । ननु उत्तरप्रकृतिबन्ध एवं विकल्पो वर्तते इत्यस्मिन् सूत्रे सूचितं न वर्तते कस्मादुच्यते उत्तरप्रकृतिबन्धोऽयम् ? साधूक्तं भवता, पूर्वसूत्रे "आद्यो ज्ञानदर्शन" इत्यादावाद्यशब्दो गृहीतो वर्तते । यद्ययं प्रकृतिबन्ध आद्यस्तर्हि पञ्चभेदादिभेद उत्तरप्रकृतिबन्धोऽयं भवति । २० उत्तरप्रकृतिबन्धस्य भेदाः किं सूत्रपर्यन्तं वक्ष्यन्ते ? "आदितस्तिसृणाम्" इत्यादि षन्धअयस्य सूत्राणि यावन्नायान्ति तावदुत्तरप्रकृतिबन्धो वेदितव्यः पारिशेष्यात् स्थित्यनुभवप्रदेशबवेभ्य उद्धरितत्वात्। अथ ज्ञानावरणं यत्पञ्चभेदमुक्तं तन्निरूपणार्थ योगोऽयमुच्यते
मतिश्रुतावधिमनःपर्ययकेवलानाम् ॥ ६॥ मतिश्च श्रुतञ्च अवधिश्च मनःपर्ययश्च केवलञ्च मतिश्रुतावधिमनःपर्ययकेवलानि तेषां मतिश्रुतावधिमनःपर्ययकेवलानाम्, एतेषामुक्तस्वरूपाणां पश्चानां मत्यादीनां ज्ञानानामावरणानि पञ्च भवन्तीति ज्ञानावरणस्योत्तरप्रकृतयः पञ्च भवन्तीति ज्ञातव्यम् । इह किश्चिद्विचार्यते मनःपर्ययज्ञानशक्तिः केवलज्ञानशक्तिश्चाभव्यप्राणिनि' वर्तते, न वा वर्तते ? वर्तत इति
२५
१ शय्यते आ०, ज०, द० । २ स्थूल- आ०, ज०, ६० । ३ -प्रागिष व- आ०, ज०,द।
For Private And Personal Use Only