________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६२
[८४
तत्त्वार्थवृत्ती "प्रकृतिः परिणामः स्याद स्थितिः कालावधारणम् ।
अनुभागो रसो ज्ञेयः प्रदेशः प्रचयात्मकः ॥" [ ] तत्र प्रकृतिबन्धः प्रदेशबन्धश्च कायवाङ्मनोयोगकृतौ भवतः स्थित्यनुभवौ तु कषायकारणौ वेदितव्यौ । योगकषायाणामुत्कृष्टानुत्कृष्टभेदात् बन्धस्यापि वैचित्र्यं वेदितव्यम् । तथा ५ चाभ्यधायि
"जोगा' पयडिपदेसा ठिदिअणुभागं कसायदो कुणदि।
अपरिणदुच्छिण्णेसु य बंठिदिकारणं णत्थि ॥१॥" [गो०क०गा० २५७] अस्यायमर्थः-योगात् प्रकृतिप्रदेशसंज्ञिनौ बन्धौ जीवः कुणदि करोति। द्विदिअणुभागं स्थितिश्च अनुभागश्च स्थित्यनुभागं समाहारो द्वन्द्वः, एतद्वन्धद्वयं कसायदो कपायतः जीवः १० कुणदि करोति । अपरिणदुच्छिण्णेसु य अपरिणतश्च उच्छिन्नश्च अपरिणतोच्छिन्नौ तयोर
परिणतोच्छिन्नयोः प्राकृते द्विवचनाभावाद् बहुवचनमत्र । अपरिणत उपशान्तकषायः, नित्यैकान्ववादरहितो वा, उच्छिन्नः क्षीणकषायादिकः एतयोर्द्वयोः बंधट्ठिदिकारणं णस्थि स्थितिबन्धहेतुर्न भवतीत्यर्थः।
अथेदानी प्रकृतिबन्धस्य प्रकारनिरूपणार्थ सूत्रमिदमाहुः१५ आयो ज्ञानदर्शनावरणवेदनीयमोहनीयायुर्नामगोत्रान्तरायाः । ४ ।
आदौ भवः आद्यः ज्ञायतेऽनेनेति ज्ञानम् "करणाधिकरणयोश्च"[ ] युट्प्रत्ययः । जानातीति वा ज्ञानम् "कृत्ययुटोऽन्यत्रापि च" [ ] इति कर्तरि युट् , दृश्यते अनेनेति दर्शनं पश्यतीति वा दर्शनम् उभयथापि युट् पूर्ववत् । आत्रियतेऽनेनेति आवरणम् आवृणोतीति वा आवरणम् । अत्रापि युट् पूर्ववत् । वेदयते वेदनीयं २० "कुत्ययुटोऽन्यत्रापि च" [ ] कर्तरि अनीयः वेद्यते वा वेदनीयम् , “तव्यानीयो" [ ] कर्मणि अनीयः । विद् वेदनाख्याननिवासनेषु चुरादावात्मनेपदी । विद् ज्ञाने चेद् हेताविन्प्रत्ययस्तु पूर्ववत् । विद्ल लाभे तुदादौ विभाषितः तत्र विन्दति विन्दते वा वेदनीयमित्यपि भवति, विद विचारणे रुधादावात्मनेपदी तत्र विन्ते वेदनीयमित्यपि स्यात्, विद्
सत्तायां दिवादावात्मनेपदी तत्र विद्यते वेदनीयमित्यपि स्यात् , वेदयतीति वेदनीयमिति वाक्ये २५ हेताविन् “इनञ् यजादेरुभयम्" [ ] इत्यपेक्षायां परस्मैपदम् । मोहयतीति मोहनीयं मुह्यते वाऽनेनेति मोहनीयम् । नरनारकादिर्भवान्तराणि एति गच्छत्यनेनेत्यायुः। अत्रायमायुःशब्दः सकारान्तो नपुंसके दर्शितः क्वचिदन्यत्र उकारान्तोऽपि दृश्यते यथा “वितरतु दीर्घमायु कुरुताद्
१-योगात् प्रकृतिप्रदेशौ स्थित्यनुभागो कषायतः करोति । अपरिणतोच्छिन्नयोश्च बन्धस्थितिकारणं नास्ति ॥ २ -स्य कारणनि- आ०, ज०, द.। ३ -पेक्षया ता०। ४-भवान्तरम् आ., ज०,२०॥
For Private And Personal Use Only