________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
८।३ ]
अष्टमोऽध्यायः
669
“पय डिट्ठिदिअणुभाग प्पदेसभेदादु चदुविधो बंधो ।
जोगा पर्यापदेसा ठिदिअणुभागा कसायदो होंति ॥" [ द्रव्यसं०गा० ३३ ] पुतलानां कर्मत्वेन परिणतिः केन दृष्टान्तेन भवति ? यथा भाण्डविशेषे स्थापितानि नानारसवीर्याणि मधूदकधातुकीपुष्पाणि खर्जू रद्राक्षादिफलानि च मद्यत्वेन परिणमन्ति तथा पुद्गला अध्यात्मनि स्थिताः कषाययोगवशेन कर्मत्वेन परिणमन्तीति दृष्टान्तदाष्टन्तौ वेदितव्यौ । 'कर्मणो यो- ५ ग्यान् पुगलानादत्ते स बन्धः' इत्यत्र सशब्दस्य ग्रहणं किमर्थम् ? सशब्द अपर निवृत्त्यर्थम् । स एव बन्धो भवति नापरो बन्धोऽस्तीति ज्ञापनार्थम् । तेन कारणेन गुणगुणिबन्धो न भवति । यस्मिन्नेव प्रदेशे जीवस्तिष्ठति तस्मिन्नेव प्रदेशे केवलज्ञानादिकं न भवति किन्तु अपरत्रापि प्रसरति । बन्धशब्दस्तु अत्र सूत्रे व्याख्येयो वर्तते । स तु बन्धः कर्मादिसाधनः, अनादिकर्मणा मिध्यादर्शनादिभिश्व साध्यत इत्यर्थः । तेन सकषायत्वात् कषायसहितत्वाज्जीव आत्मा कर्मणो १० योग्यान् कर्मोचितान् पुद्गलान् सूक्ष्मपुदलानादत्ते गृह्णाति स एव बन्धः कथ्यत इति क्रिया`कारकसम्बन्धः । अथेदानीं बन्धप्रकारनिरूपणार्थं सूत्रमिदमाहुः -
प्रकृतिस्थित्यनुभव प्रदेशास्तद्विधयः ॥ ३ ॥
प्रक्रियते प्रभवति उत्पद्यते ज्ञानावरणादिकमस्या इति प्रकृतिः स्वभावः स्वरूपमिति यावत् । यथा पिचुमन्दस्य प्रकृतिः कटुकता भवति गुडस्य प्रकृतिर्मधुरता भवति तथा ज्ञानावर- १५ कर्मणः प्रकृतिः अर्थापरिज्ञानं भवति, दर्शनावरणस्य प्रकृतिरर्थानाम नवलोकनं भवति, सद्वेद्यस्यासद्यस्य च द्विप्रकारस्यापि वेद्यस्य कर्मणः क्रमेण सुखसंवेदन म सुखसंवेदनञ्च प्रकृतिर्भवति, दर्शन मोहस्य प्रकृतिस्तत्त्वार्थानामश्रद्धानकारित्वमरुचिविधायित्वं भवति, चारित्रमोहस्य प्रकृतिर संयम हेतुर्भवति, आयुः कर्म प्रकृतिर्भवधारणकारणं भवति, नामकर्मप्रकृतिर्गतिजा त्यादिनामविधायिनी भवति, गोत्रकर्मप्रकृतिरुच्चनीचगोत्रोत्पादिका भवति, अन्तरायकर्मप्रकृतिर्दान लाभादि- २० प्रत्यूहहेतुर्भवति । अष्टकम ष्टिप्रकृतिभ्योऽप्रच्युतिः स्थितिरुच्यते यथा अजाक्षीरस्य निजमाधुर्यस्वभावादप्रच्युतिः स्थितिर्भवति गोक्षीरस्य निजमाधुर्यस्वभावादप्रच्युतिः स्थितिर्भवति महिषीक्षीरस्य निजमाधुर्यस्वभावादप्रच्युतिः । एवं ज्ञानावरणादिकर्मणामर्थापरिज्ञानादिस्वरूपाद प्रस्खलतिः स्थितिरुच्यते । अर्थापरिज्ञानादिकार्यविधायित्वरूपेणाप्रच्युतेनैतावत्कालमेते बध्यन्ते बद्धास्तिष्ठन्ति इत्यर्थाः । स्थितौ सत्यां प्रकृतीनां तीव्रमन्दमध्यमरूपेण रसविशेषः अनुभवोऽनुभाग २५ उच्यते । अजागोमहिष्यादिदुग्धानां तीव्रमन्दमध्यत्वेन रसविशेषवत् कर्मपुद्गलानां स्वगतलाम
विशेषः, स्वकार्यकरणे समर्थाः परमाणवो बध्यन्त इत्यर्थः । कर्मत्वपरिणतपुद्गलःकन्धानां परिमाण परिच्छेदनेन इयत्तावधारणं प्रदेश उच्यते । प्रकृतिश्च स्थितिश्च अनुभवश्च प्रदेशश्च प्रकृतिस्थित्यनुभव प्रदेशाः तस्य बन्धस्य विधयः प्रकाराश्चत्वारो भेदास्तदुद्विधयः । उक्तन
1
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
२६१
१ प्रकृतिस्थित्यनुभागप्रदेश भेदाचु चतुर्विधो बन्धः । योगात् प्रकृतिप्रदेशौ स्थित्यनुभागौ कषायतो भवतः ॥ २-कर्मक- भ० ज० द० । ३-छेदेन ता० ।