SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तत्त्वार्थवृत्तौ [८२ अथेदानी बन्धस्वरूपनिरूपणार्थ सूत्रमिदमाहुःसकषायस्वाज्जीवः कर्मणो योग्यान पुद गलानादत्ते स बन्धः ॥२॥ कषन्तीति कषायाः, दुर्गतिपातलक्षणहिंसनस्वभावाः कषाया इत्यर्थः। कषायैः सह वर्तते सकषायः राजदन्तादिवत्कृते समासे सहशब्दस्य पूर्वनिपातः । सकषायस्य भावः ५ सकषायत्वं तस्मात् सकषायत्वात् । ननु "मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्धहेतवः” [त० सू० ८।१] इत्यस्मिन् सूत्रे कषायाणां बन्धहेतुत्वं पूर्वमेवोक्तं पुनः सकषायत्वादिति हेतुकथनं किमर्थम् ? सत्यम्, उदरान्याशयानुसाराहारस्वीकारवत् तीव्रमन्दमध्यमकषायानुसारस्थित्यनुभागविशेषपरिज्ञानार्थं पुनः कषायनिर्देशः । तेन तीत्रमन्दमध्यमकषायकारणवशात् स्थित्यनुभागबन्धोऽपि तीत्रमन्दमध्यमरूपो भवति । ननु बन्धो जीवस्यैव भवति किमर्थं १० पुनर्जीवग्रहणम् ? सत्यम्; कश्चिदाह-आत्मा मूर्तिरहितत्वादकरः पाणिरहितः कथं कर्म गृह्णाति कथं बन्धवान भवति इति चर्चितः सन्नुमास्वामिदेवः प्राणधारणायुःसम्बन्धसहितो जीवः कर्म गृह्णाति न त्वायुःसम्बन्धं विना कर्म आदत्ते इति सूचनार्थ जीवनाज्जीवस्तेन जीवशब्दस्य ग्रहणं चकार । आयुःसम्बन्धविरहे जीवस्यानाहारकत्वादेकद्वित्रिसमयपर्यन्तं कर्म (नोकर्म) नादत्ते जीवः "एकं द्वौ त्रीन् वानाहारक:" [ त० सू० २।६० ] इति वचनात् । ननु कर्मयोग्यान् पुद्गलानादत्ते इति लघौ निर्देशे सिद्धे कर्मणो योग्यानिति भिन्नविभक्तिनिर्देशः किमर्थम् ? युक्तमुक्तं भवता; पृथग्विभक्त्युच्चारणं वाक्यान्तरस्य परिज्ञापनार्थम् । किं तद् वाक्यान्तरम् ? कर्मणो हेतुभूताज्जीवः सकषायो भवति इत्येक वाक्यम्, अकर्मकस्य जीवस्य कषायलेपाभावात् । एतेन वाक्येन जीवकर्मणोरनादिसम्बन्ध उक्तः । तेन मूर्तिरहितो जीवः मूर्तकर्मणा कथं बध्यते इति चर्चितमपि निराकृतम् । २० अन्यथा सम्बन्धस्यादिमत्वे सति तत्पूर्वमत्यन्तशुद्धिं दधानस्य जीवस्य मुक्तवद्वन्धा भावः सङ्गच्छेत् । तेन कर्मबद्धो जीवो न कर्मरहितः। द्वितीयं तु वाक्यं कर्मणो योग्यान् पुद्गालानादत्ते इति षष्ठीनिर्देशः। "अर्थवशा विभक्तिपरिणाम:" [ ] इति परिभाषणात् कर्मण इति पञ्चम्यन्तं परिहत्य षष्ठी दत्त्वा व्याख्याति । तेन कर्मणो योग्यानिति कोऽर्थः ? कर्मनिचयस्योचितान् पुद्गलानादत्ते इति सम्बन्धो भवति। पुद्गलानादत्ते २५ इति पुगलशब्दः किमर्थम् ? पुद्गलस्य कर्मणा सह तन्मयत्वसूचनार्थं कर्मणश्च पुद्गलेन सह तन्मयत्वसूचनार्थम् । तेन पुद्गलकर्म आत्मगुणो न भवति आत्मगुणस्य संसारकारणत्वाघटनात्। आदत्ते इति क्रियावचनं हेतुहेतुमद्भावसूचनार्थम् । मिथ्यादर्शनादिकं हेतुः तयुक्त आत्मा हेतुमान, तेन मिथ्यादर्शनादिभिराकृतस्य जीवस्य सर्वतो योगविशेषात् सूक्ष्मैकक्षेत्रावगाहा - नामनन्तानन्तप्रदेशानां कर्मभावयोग्यानां पुद्रलानामविभाग आख्यायते जीवप्रदेशः सहान्योन्यं ३० प्रदेशः कथ्यते न तु उपश्लेषो बन्ध इत्यर्थः । तदुक्तम् १'किम्' नास्ति ता । २ बन्धस्य ता० । ३ -गाहस्थितानाम- आ० । ४-माविर्भाव आ- आ०, ज०, द०। . For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy