________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८५१] अष्टमोऽध्यायः
२५९ सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः किं भवेन्नो वा भवेदित्यन्यतरपक्षस्यापरिग्रहः संशयमिथ्यादर्शनम् । ३। सर्वे देवाः सर्वसमयाश्च समानतया द्रष्टव्या वन्दनीया एव न च निन्दनीया इत्येवं सर्वविनयप्रकाशकं वैनयिकमिथ्यादर्शनम् । ४ । हितमहितं वा यत्र न परीक्ष्यते तदज्ञानिकमिध्यादर्शनम् ।५। तदुत्तरभेदसूचिकेयं गाथा
असिदिसदं किरियाणं अकिरियाणं तह होदि चुलसीदी। असतहिण्णाणीणं वेणयियाणं तु यत्तीसं ॥" [गो० क० ८७६ ] पृथिव्यप्तजोवायुवनस्पतिकायिका जीवाः पञ्चप्रकाराः स्थावरा उच्यन्ते । द्वीन्द्रियश्रीन्द्रिय-चतुरिन्द्रिय-पञ्चेन्द्रिया जीवास्त्रसाः कश्यन्ते । पञ्चस्थावराणां वसषष्ठानां हननादिक यत् क्रियते तत् षट्प्रकारः प्राण्यसंयमः। स्पर्शनरसनघ्राणचक्षुःश्रोत्राणां पश्चानामिन्द्रियाणां मनःषष्ठानामसंयमनमिन्द्रियासंयमः षट्प्रकारः । एवमविरतिदशप्रकारा । पञ्चसु १० समितिषु तिसृषु गुप्तिषु विनयकायवाङ्मनईर्यापथव्युत्सर्गभेक्ष्यशयनासनशुद्धिलक्षणास्वष्टसु शुद्धिषु दशलक्षणधर्मेषु चानुद्यमः प्रमादोऽनेकप्रकारः ।
""विकहा तहा कसाया इंदिय णिद्दा तहेव पणयो य ।
चदु चदु पणमेगेग्गे होंति पमादा य पण्णरस" [ गो० जी० गा० ३४ ] । इति गाथाकथितक्रमेण प्रमादः पञ्चदशप्रकारो वा" । षोडशकषाया नवनोकषायाश्चेति १५ पञ्चविंशतिकषायाः। सत्यासत्योभयानुभयलक्षणो मनोयोगश्चतुःप्रकारः, सत्यासत्योभयानुभयवाग्लक्षणो वाग्योगोऽपि चतुःप्रकारः, औदारिक-औदारिकमिश्रर्वक्रियिकवैक्रियिकमिश्रआहारक-आहारकमिश्रकामणकाययोगलक्षणः काययोगः सप्तप्रकारः। आहारककाययोगद्वयस्य प्रमत्तसंयत एव सद्भावात् योगस्त्रयोदशप्रकारः । मिथ्यादृष्टेः पञ्चाप्यास्रवा बन्धहेतवो भवन्ति । सासादनसम्यग्दृष्टेः सम्यग्मिथ्यादृष्टेरसंयतसम्यग्दृष्टश्चाविरतिप्रमादकषाययोगल- २० क्षणाश्चत्वार आस्रवा बन्धहेतवो भवन्ति । संयतासंयतस्य आर्याश्रावकश्राविकालक्षणस्य विरतिमिश्रा ह्यविरतिरास्रवो भवति, प्रमादकषाययोगाश्च त्रय आस्रवा भवन्ति । प्रमत्तसंयतस्य प्रमादकषाययोगलक्षणा आस्रवास्त्रयो भवन्ति । अप्रमत्तापूर्वकरणबादरसाम्परायसूक्ष्मसाम्परायाणां चतुर्णां कषायो योगश्चास्त्रबद्व यं भवति । उपशान्तकषायक्षीणकषायसयोगकेवलिनामेको योग एवासवः । अयोगकेवलिनस्तु आस्रयो नास्ति । अत्र समासशुद्धिविधीयते-मिथ्यादर्शन- २५ श्वाविरतिश्च प्रमादश्च कषायाश्च योगाश्च मिथ्यादर्शनाविरतिप्रमादकषाययोगाः । बन्धस्य हेतवो बन्धहेतवः । एते पञ्च पदार्थाः बन्धहेतवः कर्मबन्धकारणानि भवन्ति ।
१ सर्वसमयश्च ता० । २ अशीतिशतं क्रियाणामक्रियाणां तथा च भवन्ति चतुरशीतिः। सप्तषष्टिरज्ञानिनां वैनयिकानां तु द्वात्रिंशत् ॥ ३ -पञ्चधास्था- ता० । ४ विकथास्तथा कषाया इन्द्रियनिद्रास्तथैव प्रणयश्च । चतुःचतुःपश्चैकैकं भवन्ति प्रमादाश्च पञ्चदश ॥ ५ वा इति निरर्थकम । ६ -प्रकारो वा मि- ता० ।
For Private And Personal Use Only