________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अष्टमोऽध्यायः
अथेदानीम, आस्रवपदार्थसूचनानन्तरं बन्धपदार्थं सूचयन्ति सूरयः। स तु बन्धः निजहेतुपूर्वको भवति, अत एवादी बन्धहेतून पञ्चप्रकारान् प्रतिपादयन्ति--
मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्धहेतवः ॥ १ ॥
मिथ्यादर्शनं तावदुक्तमेव । कस्मिन् स्थाने उक्तम् ? "तत्वार्थश्रद्धानं सम्यग्दर्शनम्" ५ [त० सू० १।२ ] इत्यस्मिन् सुत्रे सम्यग्दर्शनसूचनेन तत्त्वार्थानामश्रद्धानलक्षणं सम्यग्दर्श
नस्य प्रतिपक्षभूतं मिथ्यादर्शनं सूचितमेव ज्ञातव्यम् । तथा च "इन्द्रियकषायावतक्रियाः पञ्चचतुःपञ्चपञ्चविंशतिसङ्ख्याः पूर्वस्य भेदाः" [ त० सू० ६।५] इत्यस्मिन् सूत्रे पश्चविंशतिक्रियानिरूपणावसरे मिथ्यादर्शनक्रियानिरूपणेन मिथ्यादर्शनं सूचितं भवति ।
"हिंसाऽनृतस्तेयाब्रह्मपरिग्रहेभ्यो विरतिव्रतम्" [त० सू० ७.१ ] इत्यस्मिन् सूत्रे व्रतप्रति१० पक्षभूता अविरतिरपि सूचिता भवति । पुण्यकर्मस्वनादरः प्रमाद उच्यते । आज्ञाव्यापादनक्रिया अनाकाङ्क्षाक्रिया एते द्वे क्रिये पञ्चविंशतिक्रियासु यदा सूचिते तदा प्रमादोऽपि सूचितो भवति तयोः प्रमादेऽन्तर्भावात् । "इन्द्रियकषायाव्रतक्रियाः “पञ्चचतुःपञ्चपञ्चविंशतिसङ्ख्याः पूर्वस्य भेदाः" [त० सू० ६।५] अस्मिन्नेव सूत्रे कषाया अपि
अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानसंज्वलनविकल्पाः प्रोक्ता भवन्ति । "कायवाङ्मनःकर्म१५ योगः" [ त० सू० ६।१ ] इत्यस्मिन् सूत्रे योगोऽपि निरूपित एव वेदितव्यः । तत्र मिथ्यादर्शनं
द्विप्रकारं भवति नैसर्गिकपरोपदेशपूर्वकभेदात् । तत्र नैसर्गिक मिथ्यादर्शनं मिथ्यात्वकर्मोदयात् तत्त्वार्थानामश्रद्धानलक्षणं परोपदेशं विनापि समाविर्भवति । अत्र मरीचिर्भरतपुत्रो दृष्टान्ततया बेदितव्यः । परोपदेशपूर्वकं मिथ्यादर्शनं चतुःप्रकारं ज्ञातव्यं क्रियावादि-अक्रियावादि-अज्ञानिक
वैनयिकभेदात् । एकान्त-विपरीत-संशय-विनय-अज्ञानभेदात् पञ्चविधञ्च मिथ्यादर्शनं भवति । २० तत्र इदमेव इत्थमेवेति धर्मिधर्मयोर्विषयेऽभिप्रायः पुमानेवेदं सर्वमिति नित्य एवानित्य एवेति
वाऽभिनिवेश एकान्तमिथ्यादर्शनम् । १ । सपरिग्रहो निष्परिग्रहः पुमान् वा स्त्री वा कवलाहारी केवली भवतोति विपरीतमिथ्यादर्शनं विपर्ययमिथ्यादर्शनापरनामकम् । तदुक्तम्-.
3"सेयंवरो य आसंवरो य बुद्धो य तह य अण्णो य ।
समभावभावियप्पा लहेइ मोक्खं ण संदेहो ॥"
१ -प्रमादान्त वात्- आ०, ज०, द० । १ -पूर्वभेदात् आ०, ज०, द० । २-देशनं विना-आ०, ज०, द०।३५वेताम्बरश्च आशाम्बरश्च बुद्धश्च तथा चान्यश्च । समभावभावितात्मा लभते मोक्षं न सन्देहः॥
For Private And Personal Use Only