________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७/३९]
सप्तमोऽध्यायः
२५७ अन्यादृशकारणम् । दाता द्विजनृपवणिग्वर्णवर्णनीयः, तस्य विशेषः-पात्रेऽनसूया त्यागे विषादरहितः दित्सत्-ददत्-दत्तवत्प्रीतियोगः शुभपरिणामः दृष्टफलानपेक्षकः । तथा चोक्तम्
"श्रद्धा तुष्टिर्भक्तिर्विज्ञानमलुब्धता क्षमा शक्तिः ।
यौते सप्तगुणास्तं दातारं प्रशंसन्ति ।। १॥" [ यश०उ० पृ० ४०४ ] पात्रम्-उत्तममध्यमजघन्यभेदम् । तत्रोत्तमं पात्रं महाव्रतविराजितम् । मध्यमं पानं ५ श्रावकव्रतपवित्रम्। जघन्यं पात्रं सम्यक्त्वेन निर्मलीकृतम् । त्रिविधमपि पात्रमुत्तममिति केचित् । तस्य विशेषः सम्यग्दर्शनादिशुद्धधशुद्धी। विधिश्च द्रव्यञ्च दाता च पात्रञ्च विधिद्रव्यदातृपात्राणि तेषां विशेषः विधिद्रव्यदातृपात्रविशेषः तस्माद्विधिद्रव्यदातृपात्रविशेषात् । तद्विशेषः तस्य दानस्य पुण्यफलविशेषस्तद्विशेषः । तथा चोक्तम्
"क्षितिगतमिव वटवीजं पात्रगतं दानमल्पमपि काले। १०
फलति च्छायाविभवं बहुफलमिष्टं शरीरभृताम् ॥" [ रत्नक० ४।२६ ] इति सिद्धिः। 'इति सूरिश्रीश्रुतसागरविरचितायां तात्पर्यसंज्ञायां तत्त्वार्थवृत्तौ सप्तमः पादः समाप्तः ।
१ इति श्रुतसागरसूरिणा विरचितायां तत्त्वार्थटीकायां स- द० । इत्यनवद्यगद्यपद्यविद्याविनोदितप्रमोदपीयूषरसपानपाक्नमतिसमाजरत्नराजमतिसागरयतिराजराजितार्थनसमर्थन तर्कव्याकरणछन्दोलङ्कारसाहित्यादिशास्त्रनिशितमतिना यतिना श्रीमद्देवेन्द्रकीर्तिभट्टारकपशिष्येण शिष्येण च सकलविद्वज्जनविहितचरणसेवस्य विद्यानन्दिदेवस्य संच्छर्दितमिथ्यामतदुर्गरेण श्रुतसागरेण सूरिणा विरचितायां श्लोकवार्तिकराजवार्तिकसर्वार्थसिद्धि न्यायकुमुदचन्द्रोदयप्रमेयकमलमार्तण्डप्रचण्डा टसहस्रीप्रमुखग्रन्थसन्दर्भनिर्भरावलोकनबुद्धिविराजितायां तत्त्वार्थटीकायां सप्तमोऽध्यायः समाप्तः ॥७॥ आ०, ब० ॥
For Private And Personal Use Only