SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५६ तत्त्वार्थवृत्ती [७३९ आत्मनः परस्य च उपकारः अनुग्रह उच्यते, सोऽर्थः प्रयोजनं यस्मिन् दानकर्मणि तत् अनुग्रहार्थम् । स्वोपकाराय 'विशिष्टपुण्यसञ्चयलक्षणाय परोपकाराय सम्यग्दर्शनज्ञानचारित्रादिवृद्धये स्वस्य धनस्य अतिसर्गोऽतिसर्जनं विश्राणनं प्रदानं दानमुच्यते । कथं सम्यग्दर्शनादिवृद्धिराहारादिना पात्रस्य भवतीति चेत् ? सरसाहारेण यतेर्वपुषि शक्तिर्भवति, ५ आरोग्यादिकच स्यात् , तेन तु ज्ञानाभ्यासोपवासतीर्थयात्राधर्मोपदेशादिकं सुखेन प्रवर्तते । तथा पुस्तकपस्त्यजायुसंयमशौचोपकरणादिदाने परोपकारः स्यात् । तच्च दानं योग्येन दात्रा स्वहस्तेन विज्ञानवता दातव्यम् । तदुक्तम् "धर्मेषु स्वामिसेवायां सुतोत्पत्तौ च कः सुधीः । अन्यत्र कार्यदैवाभ्यां प्रतिहस्तं समादिशेत् ॥१॥" [ यश-उ० पृ० ४०५ ] १० विज्ञानवतो लक्षणम् । तदुक्तम् "विवर्ण विरसं विद्धमसात्म्यं प्रमृतश्च यत् । मुनिभ्योऽन्नं न तद्देयं यच्च भुक्तं गदावहम् ॥ २ ॥ उच्छिष्टं नीचलोकाईमन्योद्दिष्टं विगर्हितम् । न देयं दुर्जनस्पृष्टं देवयक्षादिकल्पितम् ॥ ३ ॥ ग्रामान्तरान्समानीतं मन्त्रानीतमुपायनम् । न देयमापणक्रोतं विरुद्धं वाऽयथर्नुकम् ॥ ४॥ दधिसपिपयोभक्ष्यप्रायं पयुषितं मतम् । गन्धवर्णरसभ्रष्टमन्यत्सर्वश्च निन्दितम् ।। ५ ।।" [ यश-उ० पृ० ४०४ ] अथैवं दानलक्षणमुक्तम् , तदानं किमविशिष्टफलमेव भवति उतस्विदस्ति कश्चिद्विशेष २० इति प्रश्ने विशिष्टाविशिष्टफलनिरूपणार्थं सूत्रसिद्धिरुच्यते-- विधिद्रव्यदातृपात्रविशेषात्तद्विशेषः ।। ३९ ॥ सुपात्रप्रतिग्रहणं समुन्नतासनस्थापनं तच्चरणप्रक्षालनं तत्पादपूजनं तन्नमस्कारकरणं निजमनःशुद्धिविधानं वचननैर्मल्यं कायशुद्धिर्भक्तपानशुद्धिश्चेति नवविधपुण्योपार्जनं विधि रुच्यते । तस्य विधेर्विशेष आदरोऽनादरश्च, आदरेण विशिष्ट पुण्यं भवति, अनादरेण २५ अविशिष्टमिति । द्रव्यं "मकारत्रयरहितं तण्डुलगोधूमविकृतिधृतादिकं शुद्ध चर्मपात्रास्पृष्टम् , तस्य विशेषः---गृहीतुस्तपःस्वाध्यायशुद्धपरिणामादिवृद्धिहेतुः विशिष्टपुण्यकारणम्, अन्यथा १ विशिष्टगुणस- आ०, ब०, ज०, द० । २ तेन ज्ञा- आ०, ब०,०, द० । ३ उत्सृष्टं आ०, २०, ज०, द०। ४-मनादिधं-आ०, ब०, ज०, ६० ।५ मद्यमांसमधुत्रयरहितम् । For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy