SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५५ ७३७-३८] सप्तमोऽध्यायः कथमतिचार इति चेत् ? उच्यते- धनादिलाभाकाङ्क्षया अतिथिवेलायामपि द्रव्याद्युपार्जन परिहर्तुमशक्नुवन् परदातृहस्तेन योग्योऽपि सन् दानं दापयतीति महान अतीचारः। तदुक्तम् "आत्मवित्तपरित्यागात् परैधर्मविधापने । अवश्यमेव प्राप्नोति परभोगाय तत्फलम् ॥१॥ भोज्यं भोजनशक्तिश्च रतिशक्तिवरस्त्रियः ।। विभवो दानशक्तिश्च स्वयं धर्मकृतेः फलम् ॥२॥"[यश० उ० पृ० ४०५] यदान प्रददन्नपि आदरं न कुरुते, अपरदातृगुणान् न क्षमते वा तन्मात्सर्यमुच्यते । अकाले भोजनम् अनगाराऽयोग्यकाले दानं क्षुधिते ऽनगारे विमईकरणञ्च कालातिक्रमः । सचित्तनिक्षेपश्च सचित्तापिधानश्च परव्यपदेशश्च मात्सर्यञ्च कालातिक्रमश्च सचित्तनिक्षेपापिधानपरव्यपदेशमात्सर्यकालातिक्रमाः । एते पश्चातिचाराः अतिथिसंविभागशीलस्य भवन्ति । १० अथ सल्लेखनातिचारानाहजीवितमरणाशंसामित्रानुरागसुखानुषन्धानदानानि ॥ ३७ ।। जीवितश्च मरणश्च जीवितमरणं तस्य आशंसने आशंसे जीवितमरणाशंसे । जीवितस्य मरणस्य चाभिलाषौ द्वावतीचारौ । कथम् ? निश्चितमध्रुवं हेयं चेदं तदवस्थितावादरो जीविताशंसा । रुगादिभीतेर्जीव यासङ्क्लेशेन मरणे मनोरथो मरणाशंसा । चिरन्तनमित्रेण १५ सह क्रीडनानुस्मरणं कथमनेन ममाभीष्टेन मित्रेण मया सह पांशुक्रीडनादिकं कृतम्, कथमनेन ममाभीष्टेन व्यसनसहायत्यमाचरितम्, कथमनेन ममाभीष्टेन मदुत्सवे सम्भ्रमो विहितः इत्याद्यनुस्मरणं मित्रानुरागः । एवं मया शयनवसनवस्त्रादिकं भुक्तम् , एवं मया हंसतूलोपरि दुकूलाच्छादितायां शय्यायां वरवनितया आलिङ्गितेन सुखं शयितम् , एवंपुरुषरतव नितया सह क्रीडितञ्चेत्यादीनि सुखानि मम सम्पन्नानीत्यनुभूतप्रीतिप्रकारस्मृतिसमन्वाहारः २० सुखानुबन्धः-पूर्वभुक्तसुखानुस्मरणमित्यर्थः । 'भोगाकाङ्क्षणेन निश्चितं दीयते मनो यस्मिन् येन वा तन्निदानम् “करणाधिकरणतोश्च युट्" [ ] इति साधुः । जीवितमरणाशंसे च मित्रानुरागश्च सुखानुबन्धश्च निदानञ्च जीवितमरणाशंसामित्रानुरागसुखानुबन्धनिदानानि । एते पञ्च व्यतिपाताः सल्लेखनाया भवन्ति । ___अथाह कश्चित्-तोर्थकरत्वहेतुकर्मास्रवनिरूपणे शक्तितस्त्यागतपसीति त्यागशब्द- २५ वाच्यं दानमुक्तम्, शीलसप्तकनिरूपणे च अतिथिसंविभागशब्दवाच्यं पुननिमुक्तम् , तस्य दानस्य लक्षणमस्माभिर्न ज्ञातमस्ति अतस्तल्लक्षणमुच्यतामिति प्रश्ने सूत्रमिदमाहुः अनुग्रहार्थं स्वस्यातिसर्गो दानम् ॥ ३८ ॥ १ -कृते फ- आ०, २०, २०, ज० | २ प्रदददपि ता०। ३-पुरुषं रत- आ०, २०, ज० । पुरुषं तरवनि-द०। ४ भोगका- आ०, २०,१०, ज०। For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy