SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५४ तत्त्वार्थवृत्ती [७।३५-३६ उपक्रगणम् । एते त्रयोऽतिचाराः । क्षुधातृषाद्यभ्यदितस्य पीडितस्य आवश्यकेष्वनुत्साहा अनादर उच्यते । स्मृतेरनुपस्थापनम् विस्मरणं स्मृत्यनुपस्थानम् । ततः अप्रत्यवेक्षिताप्रमार्जितोत्सर्गादानसंस्तरोपक्रमणानि च अनादरश्च स्मृत्यनुपस्थानञ्च अप्रत्यवेक्षिताप्रमार्जितोत्सर्गादानसंस्तरोपक्रमणानादरस्मृत्यनुपस्थानानि । एते पञ्चातिचाराः प्रोषधोपवासस्य भवन्ति । ५ अथ उपभोगपरिभोगातिचारानाह सचित्तसम्बन्धसन्मिश्राभिषवदुःपक्काहाराः ॥ ३५ ॥ चेतनं चित्तम् चित्तेन सह वर्तते सचित्तः, तेन सचित्तेन उपसंसृष्ट उपश्लिष्टः शक्यभेदकरणः संसर्गमात्रसहितः स्वयं शुद्धोऽपि सचित्तसङ्घट्टमात्रेण दूषित आहारः सम्बन्धाहारः। सचित्तव्यतिकीर्णः सम्मिलितः सचित्तद्रव्यसूक्ष्मप्राण्यतिमिश्रः अशक्यभेदकरण आहारः १० सन्मिश्राहारः । सग-अतिसङ्गौ सम्बन्धसन्मिनयोर्भेदः। ‘कथमस्य शीलवतः सचित्तादिषु प्रवृत्तिरिति चेत् ? उच्यते- मोहेन प्रमादेन वा बुभुक्षापिपासातुरः पुमान अन्नपानलेपनाच्छादनादिषु सचित्तादिविशिष्टेषु द्रव्येषु चतते ।रात्रिचतुःप्रहरः क्लिन्न ओदनो द्रव उच्यते. इन्द्रियबलवर्द्धनो माषविकारादिवृष्यः कश्यते- वृषवत्कामी भवति येनाहारेण स वृष्यः, द्रवो वृष्यश्च उभयोऽभिषवः कथ्यते, अभिषवस्याहारः अभिषवाहारः। असम्यक् पक्को दुःपक्कः १५ अस्विन्नः, अतिक्लेदनेन वा दुष्टः पक्को दग्धपक्कः दुःपकः,तस्य आहारः दुःपक्काहारः । वृष्यदु: पक्कयोः सेवने सति इन्द्रियमवृद्धिः सचित्तोपयोगः वातादिप्रकोपोदरपीडादिप्रतीकारे अग्न्यादिप्रज्वालने महानसंयमः स्यादिति तत्परिहार एव श्रेयान् । आहारशब्दः प्रत्येकं प्रयुज्यते । तेन सचित्ताहारश्च सम्बन्धाहारश्च सन्मिश्राहारश्च अभिषवाहारश्च दुःपक्काहारश्च सचित्त सम्बन्धसन्मिश्राभिषवदुःपक्काहाराः । एते पञ्चातिचारा उपभोगपरिभोगपरिसङ्घथानस्य भोगो२० पभोगसङ्घयापरनाम्नः शीलस्य भवन्ति । अथातिथिसंविभागस्यातिचारानाहसचित्तनिक्षेपापिधानपरव्यपदेशमात्सर्यकालातिक्रमाः ॥ ३६ ॥ चित्तेन सह वर्तते सचित्तम्, सचित्ते कदलीदलोलूकपर्णपद्मपत्रादौ निक्षेपः सचित्तनिक्षेपः । सचित्तेन अपिधानम्, आवरणं सचित्तापिधानम् । “अर्थवशाद्विभक्तिपरिणामः" २५ [ ] इति परिभाषणात् सचित्तशब्दात् सप्तमीतृतीये निक्षेपापिधानविग्रहे भवतः । अपरदातुर्देयस्यार्पणं मम कार्य वर्तते त्वं देहीति परव्यपदेशः, परस्य व्यपदेशः कथनं परव्यपदेशः । अथवा परेऽत्र दातारो वर्तन्ते नाहमत्र दायको वर्ते इति व्यपदेशः परव्यपदेशः । अथवा परस्येदं भक्त्याद्यासंदेयं न मया इदमीदृशं वा देयमिति परव्यपदेशः । ननु परव्यपदेशः १ कथमवश्यं शी- आ०, ब०, ६०, ज० । २ -नेन म- आ०, ब०, ८०, ज.। ३ -ख्यानना- आ०, ५०, द०, ज०१४ -हेण भ- आ०, १०, ८०, ज० ।५ -भक्त द्याभासं ता० । For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy