SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७-३३-३४] सप्तमोऽध्यायः २५३ दत्वा उपभोगपरिभोगग्रहणमित्यर्थः। कन्दर्पश्च कौत्कुच्यच मौखर्यच असमीक्ष्याधिकरणच उपभोगपरिभोगानर्थक्यञ्च कन्दर्पकौत्कुच्यमौखर्यासमीक्ष्याधिकरणोपभोगपरिभोगानर्थक्यानि । एते पचातिचारा अनर्थदण्डविरमणस्य भवन्ति । अथ सामायिकातिचारानाह योगदुःप्रणिधानानादरस्मृत्यनुपस्थानानि ॥ ३३ ॥ ५ कायवाङ्मनसां यत्कर्म स योग उच्यते, योगस्य दुष्टानि प्रणिधानानि प्रवृत्तयः योगदुःप्रणिधानानि, योगस्य अन्यथा प्रणिधानानि प्रवृत्तयः योगदुःप्रणिधानानि त्रयोऽतिचाराः। सामायिकावसरे क्रोधमानमायालोभसहिताः कायवाङ्मनसां प्रवृत्तयः दुष्टप्रवृत्तयः, शरीरावयवानामनिभृतत्वं कायस्यान्यथाप्रवृत्तिः, संस्काररहितार्थागमकवर्णप्रयोगो वचोऽन्यथाप्रवृत्तिः, उदासीनत्वं मनोऽन्यथाप्रवृत्तिः । एवं द्विप्रकारमपि कायदुःप्रणिधानं वाग्दुःप्रणि- १० धान मनोदुःप्रणिधानश्चेति त्रयोऽतिचाग भवन्ति । चतुर्थोऽतिचार अनादरः अनुत्साहः अनुद्यम इति यावत् । पञ्चमोऽतिचारः स्मृत्यनुपस्थानं स्मृतेरनुपस्थानं विस्मृतिः-न ज्ञायते किं मया पठितं किं वा न पठितम् , एकाग्रतारहितत्वमित्यर्थः। योगदुःप्रणिधानानि च अनादरश्च स्मृत्यनुपस्थानञ्च योगदुःप्रणिधानानादरस्मृत्यनुपस्थानानि । एते पश्चातिचाराः सामा'यिकस्य वेदितव्याः। अथ प्रोषधोपवासातिचारानाह__ अप्रत्यवेक्षिताप्रमार्जितोत्सर्गादानसंस्तरोपक्रमणा नादरस्मृत्यनुपस्थानानि ॥ ३४ ।। अत्र प्राणिनो विद्यन्ते न वा विद्यन्ते इति बुद्धथा निजचक्षुषा पुनर्निरीक्षणं प्रत्यवेसितमुच्यते, कोमलोपकरणेन यत्प्रतिलेखनं क्रियते तत्प्रमार्जितमुच्यते, न विद्यते प्रत्यवेक्षितं २० येषु तानि अप्रत्यवेक्षितानि, न विद्यते प्रमार्जितं येषु तानि अप्रमार्जितानि, अप्रत्यवेक्षितानि च तानि अप्रमाणितानि अप्रत्यवेक्षिताप्रमार्जितानि । अथवा, प्रत्यवेक्षन्ते स्म प्रत्यवेक्षितानि, न प्रत्यवेक्षितानि अप्रत्यवेक्षितानि, प्रमार्जन्ते स्म प्रमार्जितानि, न प्रमार्जितानि अप्रमार्जितानि, अप्रत्यवेक्षितानि च तानि अप्रमार्जितानि अप्रत्यवेक्षिताप्रमार्जितानि । मूत्रपुरीषादीनामुत्सर्जनं त्यजनम् उत्सर्गः। अहंदाचार्यपूजोपकरणस्य गन्धपुष्पधूपादेरात्मपरिधानोपधानादि- २५ वस्तुनश्च ग्रहणमादानमुच्यते । संस्तरस्य प्रच्छदपटादेः' उपक्रमणमारोहणं संस्तरोपक्रमणं प्रस्तरणस्वीकरणमित्यर्थः । उत्सर्गश्व आदानश्च संस्तरोपक्रमणञ्च उत्सर्गादानसंस्तरोपक्रमणानि । अप्रत्यवेक्षिताप्रमार्जितानि च तानि उत्सर्गादानसंस्तरोपक्रमणानि अप्रत्यवेक्षिताप्रमाजितोत्सर्गादानसंस्तरोपक्रमणानि । कोऽर्थः ? अप्रत्यवेक्षिताप्रमार्जितभूभौ मूत्रपुरीषादेरुत्सर्गः, अप्रत्यवेक्षिताप्रमार्जितस्य पूजाद्यपकरणस्य आदानम् , अप्रत्यवेक्षिताऽप्रमार्जितस्य संस्तरस्य ३० १ प्रच्छपुटादेः द०, भा०, ब०, ज० । For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy