SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५२ तत्त्वार्थवृत्ती [७३१-३२ भाण्डेन महान् लाभो भवतीति तत्र गमनाकाङ्क्षा गमनं वा क्षेत्रवृद्धिः । दक्षिणापथागतस्य धाराया 3उज्जयिनी पञ्चविंशतिगव्यूतिभिः किञ्चिन्यूनाधिकाभिः परतो वर्तते। स्मृतेरन्तरं विच्छित्तिः स्मृत्यन्तरं तस्य आधानं विधानं स्मृत्यन्तराधानम् अननुस्मरणं योजनादि कृतावधेविस्मरणमित्यर्थः। ऊध्र्वच अधश्च तिर्यक्च ऊर्ध्वाधस्तियश्चस्तेषां व्यतिक्रमास्त्रयोऽ५ तिचाराः, क्षेत्रवृद्धिश्च स्मृत्यन्तराधानञ्च ऊर्ध्वाधस्तिर्यग्व्यतिक्रमक्षेत्रवृद्धिस्मृत्यन्तराधानानि । एते पन्चातिचाराः दिग्विरतेभवन्ति । अथ देशविरत्यतिचारान् प्रथयति आनयनप्रेष्यप्रयोगशब्दरूपानुपातपुद्गलक्षेपाः ॥ ३१ ॥ आत्मसङ्कल्पितदेशस्थितोऽपि प्रतिषिद्धदेशस्थितानि वस्तूनि कार्यवशात् तद्वस्तु१० स्वामिनं कथयित्वा निजदेशमध्ये आनाय्य क्रयविक्रयादिकं यत्करोति तदानयनमुच्यते । एवं विधेहीति नियोगः प्रेष्यप्रयोगः। कोऽर्थः ? प्रतिषिद्धदेशे प्रेष्यप्रयोगेणेव अभिप्रेतव्यापारसाधनम् । निषिद्धदेशस्थितान् कर्मकरादीन् पुरुषान् प्रत्युद्दिश्य अभ्युत्कासिकादिकरणम् , कण्ठमध्ये कुत्सितशब्दः कासनं कासः अभ्युत्कासिका कथ्यते, तं शब्द श्रुत्वा ते कर्मकरादयो व्यापारं शीघ्रं साधयन्ति इति शब्दानुपातः । स्वशरीरदर्शनं रूपानुपातः । पुद्गलस्य लोष्टादेः क्षेपो १५ निपातः पुद्गलक्षेपः । आनयनच प्रेष्यप्रयोगश्च शब्दरूपानुपातौ च पुद्गलक्षेपश्च आनयनप्रेष्यप्रयोगशब्दरूपानुपातपुद्गलक्षेपाः। एते पञ्चातिचाराः देशविरतेभवन्ति । अथानर्थदण्डविरतेरतिचारानाहकन्दर्पकौत्कुच्यमौखर्याऽसमीक्ष्याधिकरणोपभोगपरिभोगा नर्थक्यानि ॥३२॥ २० रागाधिक्यात् वर्करसंवलिताऽशिष्टवचनप्रयोगः कन्दर्प उच्यते । प्रहासवागशिष्ट वाक्प्रयोगौ पूर्वोक्तौ द्वावपि तृतीयेन दुष्टेन कायकर्मणा संयुक्तौ "कौत्कुच्यमुच्यते । धृष्टत्वप्रायो बहुप्रलापो यत्किञ्चिदनर्थकं वचनं यद्वा तद्वा तद्वचनं मौखर्यमुच्यते। असमीक्ष्य अविचार्य अधिकस्य करणम् "असमीक्ष्याधिकरणम् । तत्रिधा भवति-मनोगतं वाग्गतं कायगतञ्चेति । तत्र मनोगतं मिथ्यादृष्टीनामनर्थकं काव्यादिचिन्तनं मनोगतम्। निष्प्रयो२५ जनकथा परपीडावचनं यत्किञ्चिद्वक्तृत्वादिकं वाग्गतम् । निःप्रयोजनं सचित्ताचित्तदल फलपुष्पादिछेदनादिकम् अग्निविषक्षारादिनदानादिकं कायगतम् । एवं त्रिविधम् असमीक्षा(क्ष्या ) धिकरणम् । न विद्यते अर्थः प्रयोजनं ययोस्तौ अनर्थको, अनर्थकयोर्भावः कर्म वा आनर्थक्यम् , उपभोगपरिभोगयोरानर्थक्यम् उपभोगपरिभोगानर्थक्यम् , अधिकमूल्यं १ गमनं च क्षे- भा०, ब०, ज०। २ -गतधारायाम् ता० । ३ ऊर्जयि- ता । ४ कौत्कुच्य उ- आ०, ब०, द०,ज०। ५ -क्षाधि- आ०, ब०, ब०, ज०। ६ -जनकथनं प- भा०, ब०, द०, ज०। - --------------- For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy