SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७१२९-३० सप्तमोऽध्यायः २५१ परिगृहीतागमने च द्वे अनङ्गक्रीडा 'च कामतीब्राभिनिवेशश्च परविवाहकरणेत्वरिकापरिगृहीताऽपरिगृहीतागमनानङ्गक्रीडाकामतीव्राभिनिवेशाः। स्वदारसन्तोष-परदारनिवृत्यणुव्रतस्य एते पचातिचाराः भवन्ति । __ अथेदानी परिग्रहपरिमाणाणुव्रतस्यातिचारान् वदन्ति-- क्षेत्रवास्तुहिरण्यसुवर्णधनधान्यदासीदासकुप्यप्रमाणातिक्रमाः ॥२६।। ५ क्षेत्रं धान्योत्पत्तिस्थानम् । वास्तु च गृहम् । हिरण्यञ्च रूप्यादिद्रम्म व्यवहारप्रवर्तनम् । सुवर्ण कनकम्। धनञ्च गोमहिषीगजवाजिबडवोष्ट्राजादिकम् । धान्यञ्च ब्रीह्याद्यष्टादशभेदसुशस्यम्, तदुक्तम् “गोधूमशालियवसर्षपमाषमुद्गाः श्यामाककङ्गुतिलकोद्रवराजमाषाः । कीनाशनालमठवैणवमाढकी च सिंवाकुलत्थचणकादिषु बीजधान्यम् ॥१॥" १० कीनाशो लाङ्गस्त्रिपुट इति यावत् । नालं मकुष्टः । मठवणवं ज्वारी । आढकी तुवरी। "तुवर्यश्चणका माषा मुद्गा गोधूमशालयः । यवाश्च मिश्रिताः सप्त धान्यमाहुर्मनीषिणः ॥"[ ] तिलशालियवानिधान्यम्। दासी च चेटी, दासश्च चेटः। कुप्यं च क्षौमकौशेय- १५ कर्पासचन्दनादिकम् । तत्र क्षीमं शुभ्रपटोलकम् । कौशेयं टसरिचीरम् । क्षेत्रञ्च वास्तु च क्षेत्रवास्तु, हिरण्यञ्च सुवर्णञ्च हिरण्यसुवर्णम्, धनञ्च धान्यञ्च धनधान्यम् , दासी च दासश्च दासीदासम् , क्षेत्रवास्तु च हिरण्यसुवर्ण च धनधान्यं च दासीदासं च कुप्यञ्च क्षेत्रवास्तुहिरण्यसुवर्णधनधान्यदासीदासकुप्यानि, चत्वारि द्वे द्वे मिलित्वा पञ्चमं केवलं ज्ञातव्यम् , तेषां प्रमाणपनि तेषामतिक्रमा अतिरेका अतीव लोभवशात् प्रमाणातिल्चनानि । २० एते पञ्चातिचाराः परिग्रहपरिमाणक्तस्य वेदितव्याः। पञ्चाणुप्रतानां व्यतिलकनानि कथितानि । अथेदानीं शीलसप्तकव्यतिक्रमा उच्यन्ते । तथाहि ऊर्ध्वाधस्तिर्यग्व्यतिक्रमक्षेत्रवृद्धिस्मृत्यन्तराधानानि ॥ ३० ॥ व्यतिक्रमो विशेषेणातिलानं व्यतिपात इति यावत्। व्यतिक्रमशब्दः तिर्यगन्तेषु २५ त्रिषु शब्देषु प्रत्येकं प्रयुज्यते । तेनायमर्थः-ऊर्ध्वव्यतिक्रमः अधोव्यतिक्रमः तिर्यग्व्यतिक्रमः। शैलाचारोहणमूर्ध्वव्यतिक्रमः। अवटाद्यवतरणमधोव्यतिक्रमः। सुरङ्गादिप्रवेशस्तिर्यग्व्यतिक्रमः । व्यासङ्गमोहप्रमादादिवशेन लोभावेशाद् योजनादिपरिच्छिन्नदिक्सङ्ख्यायाः अधिकाकाङ्क्षणं क्षेत्रवृद्धिरुच्यते । यथा "मन्याखेटावस्थितेन केनचित् श्रावकेण क्षेत्रपरिमाणं कृतं यद् 'धारापुरीलानं मया न कर्त्तव्यम' इति, पश्चाद् उज्जयिन्याम् अन्येन ३० १ -द्रम्न- ता०।२ मठः वै- ता० । ३ -न्ते ऊ- आ०, ब०, ज० । ४ -मोऽति--वा। ५ -मान्याक्षेत्राव- आ०, ब०, ज०। ६ -केन परि- मा०, ब०, ज० । For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy