SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५० तत्त्वार्थवृत्तौ [७/२८ तदाहृतादानम् । बहुमूल्यानि वस्तूनि अल्पमूल्येन नैव गृहीतव्यानि, अल्पमूल्यानि वस्तूनि बहुमूल्येन नैव दातव्यानि । राज्ञ 'आज्ञाधिकरणं यदविरुद्धं कर्म तद् राज्यमुच्यते । उचितमूल्यादनुचितंदानम् अनुचितं ग्रहणञ्च अतिक्रम उच्यते । विरुद्धराज्ये अतिक्रमः विरुद्धराज्यातिक्रमः । यस्मात्कारणात् राज्ञा घोषणा अन्यथा दापिता दानमादानं च अन्यथा करोति स विरुद्धराज्यातिक्रमः । अथवा, राजघोषणां विनापि यद्वणिजो व्यवहरन्ति तं व्यवहारं यदि राजा तथैव मन्यते तदा तु विरुद्धराज्यातिक्रमो न भवति । प्रस्थः चतुःसेरमानम्, तत्काष्टादिना घटितं मानमुच्यते, उन्मानं तु तुलामानम्, मानं चोन्मानञ्च मानोन्मानम्, एताभ्यां न्यूनाभ्यां ददाति अधिकाभ्यां गृह्णाति हीनाधिकमानोन्मानमुच्यते । ताम्रेण घटिता रूप्येण च सुवर्णेन च घटिता ताम्ररूप्याभ्यां च घटिता ये 'द्रम्माः तत् हिरण्यमुच्यते, तत्सदृशाः केनचित् लोक१० कचनार्थ घटिता द्रम्माः प्रतिरूपका उच्यन्ते, तैर्व्यवहारः कविक्रयः प्रतिरूपकव्यवहारः कथ्यते । स्तेनप्रयोगश्च तदाहृतादानं च-तेनानीतग्रहणम्-विरुद्धराज्यातिक्रमश्च हीनाधिकमानोन्मानब्च प्रतिरूपकव्यवहारश्च स्तेनप्रयोगतदाहृतादानविरुद्धराज्यातिक्रमहीनाधिकमानोन्मानप्रतिरूपकव्यवहाराः। एते पश्चातिचारा अचौर्याणुव्रतस्य भवन्ति । अथेदानी ब्रह्मचर्यस्य पञ्चातिचारानाहपरविवाहकरणेत्वरिकापरिगृहीताऽपरिगृहोतागमनानङ्गक्रीडा ___ कामतीवाभिनिवेशाः ॥ २८॥ कन्यादानं विवाह उच्यते, परस्य स्वपुत्रादिकादन्यस्य विवाहः परविवाहः, परविवाहस्य करणं परविवाहकरणम् । एति गच्छति परपुरुषानित्येवं शीला इत्वरी, कुत्सिता इत्वरी इत्वरिका। एकपुरुषभर्तृका या स्त्री भवति सधवा विधवा वा सा परिगृहीता सम्बद्धा २० कथ्यते । या वाराङ्गनात्वेन पुंश्चलीभावेन वा परपुरुषानुभवनशीला निःस्वामिका सा अपरि गृहीता असम्बद्धा कथ्यते । परिगृहीता च अपरिगृहीता च परिगृहीताऽपरिगृहीते, इत्वरिके च ते परिगृहीतापरिगृहीते इत्वरिकापरिगृहीताऽपरिगृहीते, इत्वरिकापरिगृहीताऽपरिगृहीतयोगमने प्रवृत्ती द्वे इत्वरिकापरिगृहीताऽपरिगृहीतागमने। गमने इति कोऽर्थः ? जघनस्तनवदनादिनिरीक्षणं' सम्भाषणं पाणिभ्रचक्षुरन्तादिसज्ञाविधानमित्येवमादिकं निखिलं रागित्वेन २५ दुश्चेष्टितं गमनमित्युच्यते। अङ्गं स्मरमन्दिरं स्मरलता च ताभ्यामन्यत्र करकक्षकुचादि प्रदेशेषु क्रीडनमनङ्गक्रीडा कथ्यते । न अङ्गाभ्यां क्रीडा अनङ्गक्रीडेति विग्रहात् । कामस्य कन्दर्पस्य तीव्रः प्रवृद्धः अभिनिवेशः अनुपरतप्रवृत्तिपरिणामः कामतीव्राभिनिवेशः, यस्मिन् काले स्त्रियां प्रवृत्तिरुक्ता तस्मिन्नपि काले कामतीब्राभिनिवेश इत्यर्थः । दीक्षिताऽतिबालातिर्यग्योन्यादिगमनमपि कामतीबाभिनिवेश इत्यर्थः। परविवाहकरणञ्च इत्वरिकापरिगृहीता: २० १ राज्ञा आज्ञादिक- आ०, ब०, ज०१२-चितादा- आ०, २०, ज० । ३ द्रम्नाः आ०, ब०, ज.४ घराङ्गनात्वेन भा०, २०, ज० | ५-क्षणसंभाषणपाता । ६ अनङ्गा- आ०, ब.ज.।। For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy