SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७२६-२७] सप्तमोऽध्यायः २४९ भारवाहनं राजदानादिलोभात् अतिभारारोपणम् । गोमहिषीबलीवईवाजिगजमहिषमानवशकुन्तादीनां क्षुत्तृष्णादिपीडोत्पादनम् अन्नपाननिरोधः। बन्धश्च वधश्च छेदश्च अतिभारारोपणब्च अन्नपाननिरोधश्च बन्धवधछेदातिभारारोपणानपाननिरोधाः । एते पञ्चातिचारा अहिंसाणुव्रतस्य भवन्ति । अथेदानी सत्याणुव्रतस्य पश्चातिचारा उच्यन्तेमिथ्योपदेशरहोभ्याख्यानकूटलेखक्रियान्यासापहारसाकारमन्त्रभेदाः ।२६। इन्द्रपदं तीर्थकरगर्भावतारजन्माभिषेकसाम्राज्यचक्रवर्तिपदनिःक्रमणकल्याणमहामण्ड- • लेश्वरादिराज्यादिकं सर्वार्थसिद्धिपर्यन्तममिन्द्रं पदं सर्वं सांसारिक विशिष्टमविशिष्टं सुखमभ्युदयमित्युच्यते । केवलज्ञानकल्याणं निर्वाण कल्याणमनन्तचतुष्टयं परमनिर्वाणपदं च निःश्रेयसमुच्यते। तयोरभ्युदयनिःश्रेयसयोनिमित्तं या क्रिया सत्यरूपा वर्तते तस्याः क्रियायाः मुग्धलोकस्य १० अन्यथाकथनमन्यथाप्रवर्तनं धनादिनिमित्तं परवञ्चनच मिथ्योपदेश उच्यते । स्त्रीपुंसाभ्यां रहसि एकान्ते यः क्रियाविशेषोऽनुष्ठित कृत उक्तो वा स क्रियाविशेषो गुप्तवृत्त्या गृहीत्वा अन्येषां प्रकाश्यते तद् रहोऽभ्याख्यानमुच्यते । केनचित्पुरुषेण अकथितम् अनुक्तं यत् किञ्चित कार्य द्वेषवशात् परपीडनार्थम् एवमनेनोक्तमेवमनेन कृतम् इति परकचनार्थं यल्लिख्यते राजादौ दय॑ते सा कूटलेखक्रिया, पैशुन्यमित्यर्थः। केनचित् पुरुषेण निजमन्दिरे · हिरण्यादिकं १५ द्रव्यं न्यासीकृतं निक्षिप्तमित्यर्थः, तस्य द्रव्यस्य ग्रहणकाले सवथा विस्मृता विस्म-.. रणप्रत्ययादल्पं द्रव्यं गृह्णाति, न्यासवान् पुमान् अज्ञावचनं ददाति-देवदत्त, यावन्मात्रं द्रव्यं ते वर्तते तावन्मानं त्वं गृहाण किंमत्र प्रष्टव्यमिति, जानन्नपि परिपूर्ण तस्य न ददाति न्यासापहार उच्यते । कार्यकरणमङ्गविकारं भ्रूक्षेपादिकं परेषां दृष्ट्वा पराकूतं पराभिप्रायमुपलभ्य ज्ञात्वा असूयादिकारणेन तस्य पराकूतस्य पराभिप्रायस्य अन्येषामग्रे आविष्करणं प्रकटनं यत् क्रियते २० स साकारमन्त्रभेद इत्युच्यते । मिथ्योपदेशश्च रहोभ्याख्यानच्च कूटलेखक्रिया च न्यासापहारश्च साकारमन्त्रभेदश्च मिथ्योपदेशरहोभ्याख्यानकूटलेखक्रियासाकारमन्त्रभेदाः । एते पश्चातिचाराः सत्याणुव्रतस्य भवन्ति । अथाचौर्याणुव्रतस्य पञ्चातिचारा उच्यन्तेस्तेनप्रयोगतदाहृतादानविरुद्धराज्यातिक्रमहीनाधिक- २५ मानोन्मानप्रतिरूपकव्यवहाराः ॥ २७ ॥ कश्चित्पुमान् चौरीं करोति, अन्यस्तु कश्चित्तं चोरयन्तं स्वयं प्रेरयति मनसा वाचा कायेन, अन्येन वा केनचित्पुंसा तं चोरयन्तं प्रेरयति मनसा वाचा कायेन, स्वयमन्येन वा प्रेर्यमाणं चौरी कुर्वन्तम् अनुमन्यते मनसा वाचा कायेन, एवं विधाः सर्वेऽपि प्रकाराः स्तेनप्रयोगशब्देन लभ्यन्ते । चौरेण चोराभ्यां चौरी यद्वस्तु चोरयित्वा आनीतं तद्वस्तु मूल्यादिना गृह्णाति तत् ३० १ तपोऽभ्यु- आ० ब०, ज० । २ तद्वस्तु यत् मू- आ०, ब०, ज.। ३२ For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy