SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४८ तत्त्वार्थवृत्तौ [७२४-२५ अन्यदृष्टिप्रशंसासंस्तवौ । शङ्का च काङ्क्षा च विचिकित्सा च अन्यदृष्टिप्रशंसासंस्तवौ च शङ्काकालक्षाविचिकित्सान्यदृष्टिप्रशंसासंस्तवाः । एते पञ्चातिचाराः पञ्च दोषाः सम्यग्दृष्टेः जीवस्य भवन्ति । तत्र शङ्का-यथा निर्ग्रन्थानां मुक्तिरक्ता तथा सग्रन्थानामपि गृहस्थादीनां किं मुक्ति र्भवति इति शङ्का । अथवा, भयप्रकृतिः शङ्का । इहपरलोकभोगकाङ्क्षणं काक्षा। रत्नत्रयमण्डित५ शरीराणां जुगुप्सनं स्नानाद्यभावदोषोद्भावनं विचिकित्सा। मिथ्यादृष्टीनां मनसा ज्ञानचारित्रगुणोद्भावनं प्रशंसा, विद्यमानानामविद्यमानानां मिथ्यादृष्टिगुणानां वचनेन प्रकटनं संस्तव उच्यते । ननु सम्यग्दर्शनमष्टाङ्गं प्रोक्तम्, अतिचारा अपि तस्याष्टो भवन्ति कथमाचार्येण पञ्चतिचाराः प्रोक्ताः ? सत्यमुक्तं भवता; शीलवतेषु पञ्च पञ्चातिचारान् वक्तुमिच्छराचार्यः। [अतः ] अष्टस्वतिचारेषु सत्स्यपि सम्यग्दृष्टेः पञ्चातिचाराः प्रोक्ताः, इतरेषां त्रयाणा मतिचाराणाम् अन्तीवितत्वात् अष्टातिचारा वेदितव्याः । कथमिति चेत् ? उच्यते-यः पुमान् १० मिथ्यादृष्टीनां मनसा प्रशंसां करोति स तावन्मूढदृष्टिश्चतुर्थातिचारवान् भवत्येव । यस्तथाविधो मूढष्टिः स 'प्रमादाशकनकारणोद्भवं रत्नत्रयमण्डितानां दोषं नोपगृहति तेषां स्थितीकरणञ्च न करोति वात्सल्यं तु दूरे तिष्ठतु शासनप्रभावनां च कथं कुरुते तेन अन्यदृष्टिप्रशंसासंस्तवयोमध्ये अनुपबृंहणादयो दोषा अन्तर्गर्भिता भवन्तीति वेदितव्यम् । ते निःशङ्कितादीनामष्टानां गुणानां प्रतिपक्षभूता अष्ट दोषा ज्ञातव्याः। १५ अथ यथा पञ्चातिचाराः सम्यग्दष्टेभवन्ति तथा [किं ] व्रतशीलेष्वपि भवन्तीति प्रश्ने ओमित्युक्त्वा व्रतशीलातिचारसङ्घयानिरूपणार्थं सूत्रमिदमाहुराचार्याः-ओमिति कोऽर्थः ? ओमित्यङ्गीकारे। व्रतशोलेषु पञ्च पञ्च यथाक्रमम् ।।.२४ ।। व्रतानि च शीलानि च व्रतशीलानि तेषु व्रतशीलेषु । पञ्चसु अणुव्रतेषु दिग्विरति२० व्रतादिषु सप्तसु शीलेषु पञ्च पञ्चातिचाराः, द्वादशसु व्रतेषु यथाक्रममनुक्रमेण भवन्तीति संग्रहसूत्रमिदम् । ननु व्रतग्रहणेनैव द्वादशत्रतानि सिद्धानि शीलग्रहणमनर्थकम् ; इत्याहयुक्तमुक्तं भवता; व्रतग्रहणेन द्वादशत्रतसिद्धौ यच्छीलग्रहणं तद्विशेषज्ञापनार्थम्। शीलं हि नाम व्रतपरिरक्षणम् । तेन दिग्विरतिव्रतादिभिः सप्तभिः व्रतः पञ्चानामणुव्रतानां परिरक्षणं भवतीति शीलपणे नास्ति दोषः। एते द्वादशवतानां प्रत्येकं पञ्च पचातिचाराः २५ मिलित्वा अगारिणः षष्टिरतिचारा भवन्ति अगार्यधिकारात् । तत्र तावदहिंसात्रतस्य पञ्चातिचारानाह बन्धवधच्छेदातिभारारोपणान्नपाननिरोधाः ॥२५॥ निजेष्टदेशगमनप्रतिबन्धकारणं बन्धन बन्धः । यष्टितर्जनकवेत्रदण्डादिभिः प्राणिनां ताडनं हननं वधः,न तु अत्र प्राणव्यपरोपणं वध उच्यते तस्य पूर्वमेव निषिद्धत्वात् । शब्दग्रह३० नासिकाङ्गुलिवराङ्गचक्षुरादीनामवयवानां विनाशनं छेद उच्यते । न्याय्याद्धारादधिक १ अशकनम् असामर्थ्यम्। २ अनुपगृहनादयो भा०, ब०, ज० । ३ कर्णम् । For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy