________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७।२३] सप्तमोऽध्यायः
२४७ वधदोषो भविष्यति हिंसासद्भावात् ; तन्न "प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा" [त० सू० ७१३ ] इति जिनसूत्रे प्रोक्तम्, यस्तु मनःपूर्विका सल्लेखनां करोति स अप्रमत्तस्तस्य प्रमादयोगो नास्ति । कस्मात् ? रागद्वेषमोहाद्यभावात् । यस्तु पुमान् रागद्वेषमोहादिभिरविस्पृष्ट : म्लष्टः सन् विषेण शस्त्रेण गलपाशकेन दहनप्रवेशेन कूपादौ निमज्जनेन भृगुपातेन रसनाखण्डादिना प्रयोगेण आत्मानमाहते स स्वघातपातकी भवत्येव । तथा च श्रुतिः- ५
"असूर्या नाम ते लोका अन्धेन तमसा वृताः।
ताँस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः ॥१॥" [ ईशावा० ३] तेन सल्लेखनां प्रतिपन्नस्य पुंसः आत्मघातपातको नास्ति । तथा चोक्तम्
"रागादीणमणुप्पा अहिंसगत्तेति देसियं समये । तेसिं चेदुप्पत्ती हिंसेति जिणेहि णिहिट्ठा ।। १ ।।" [ ] १० रागादीनामनुत्पादादहिंसकत्वमिति देशितं समये । तेषां चेदुत्पत्तिः हिंसेति जिनरुद्दिष्टा ॥
अत्र खलु मरणमनिष्टं वर्तते वणिग्गृहविनाशवत् । यथा वणिजः नानाप्रकारपण्यानां भाण्डानां दाने आदाने सब्चये च तत्परस्य पण्यभृतगृहविनाशोऽनिष्टो भवति पण्यभृतगृहस्य कुतश्चित् कारणात् विनाशे समायाते सति स वणिक् शक्त्यनुसारेण पण्यभृतं गृह परित्यजति । परिहर्तुमशक्ये च पण्यगृहे यथा पण्यविनाशो न स्यात्तथा यत्नं विधत्ते । १५ एवमगार्यपि व्रतशीललक्षणपण्यसञ्चये प्रवर्तमानः व्रतशीलाश्रयस्य कायस्य पतनं नाकाङ्क्षति। कायपतनकारणे चागते सति निजगुणानामविरोवेन निजकायं शनैःशनैःपरिहरति । तथा परिहर्तुमशक्ये च निजकाये कदलीघातवत् युगपदुपस्थिते च निजकायविनाशे सति निजगुणानां विनाशो यथा न भवति तथा कायविनाशे प्रयत्नं विधत्ते कथमात्मघातपातकी भवति ? तथा चोक्तम्
"अन्तःक्रियाधिकरणं तपःफलं सकलदर्शिनः स्तुवते ।
तस्माद्यावद्विभवं समाधिमरणे प्रयतितव्यम् ।." [ रत्नक० ५।२] ___ अथ निःशल्यः खलु व्रतो, शल्यानि तु मायामिथ्यानिदानलक्षणानि तेन मिथ्यादर्शनं शल्यमुच्यते; तेन कारणेन सम्यग्दृष्टिवती भवति तत्सम्यग्दर्शन सदाषं निर्दोष वा भवति' इति प्रश्ने कस्यचित् सदोषं सम्यग्दर्शनं भवतीति प्रतिपादनार्थ सूत्रमिदमाचक्षते विचक्षणाः- २५ शङ्काकासाविचिकित्सान्यदृष्टिप्रशंसासंस्तवाः
सम्यग्दृष्टेरतीचाराः ॥ २३ ॥ शङ्कनं शङ्का, काक्षणं काङ्क्षा, विचिकित्सनं विचिकित्सा, प्रशंसनं प्रशंसा, संस्तवनं संस्तवः। प्रशंसा च संस्तवश्च प्रशंसासंस्तवौ, अन्यदृष्टीनां मिथ्यादृष्टीनां प्रशंसासंस्तवौ
१-विस्पष्टः ता०।२-उद्धृ तेयम्-१० सि० ७२२ ।।
For Private And Personal Use Only