________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४६ तत्वार्थवृत्ती
[७।२२ तादिकं यत् पुनः पुनर्भुज्यते स उपभोगः। उपभोगपरिभोगपरिमाणवते नियतकालसम्बन्धेऽपि मद्यं मांस मधु च सदैव परिहरणीयं त्रसघातनिवृत्तचित्तेन पुंसा। केतकिनिम्बकुसुमार्द्रकमूलकसर्वपुष्पानन्तकायिकछिद्रशाकनालीनलादिकं बहुजन्तुयोनिस्थानं तदपि यावजीवं परिहर्तव्यं बहुघाताल्पफलत्वात्। तथा चोक्तम्
"अल्पफलबहुविधातान्मूलकमार्द्राणि शृङ्गवेराणि ।
नवनीतनिम्बकुसुमं कैतकमित्येवमवहेयम् ॥' [ रत्नक० ३।३९ ]
अथोपभोगविचार:--यानवाहनभूषणवसनादिकमेतावन्मात्रमेव ममेष्टमन्यदनिष्टमिति ज्ञात्वा अनिष्टपरिहारः कालमर्यादया यावज्जीवं वा कर्तव्यः ।
संयममविराधयन् अतति भोजनार्थं गच्छति यः सोऽतिथिः । अथवा न विद्यते तिथिः १० प्रतिपद्वितीयातृतीयादिका यस्य सः अतिथिः अनियतकालभिक्षागमन इत्यर्थः । अतिथये
समीचीनो विभागः निजभोजनाद् विशिष्टभोजनप्रदानमतिथिसंविभागः। स चतुर्विधो भवति-भिक्षादानम् उपकरणवितरणमौषधविश्राणनमावासप्रदानमिति । यो मोक्षार्थ उद्यतः संयमतत्परः शुद्धश्च भवति तस्मै निर्मलेन चेतसा अनवद्या भिक्षा दातव्या, धर्मोपकरणानि च पिच्छपुस्तकपट्टकमण्डल्या २(ल्या)दीनि रत्नत्रयवर्द्ध कानि प्रदेयानि, औषधमपि योग्यमेव देयम्, १५ आवासश्च परमधर्मश्रद्धया प्रदातव्यः । अत्र च जिनस्नपनपूजादिकं वक्तव्यम् । एतानि
चत्वारि शिक्षात्रतानि भवन्ति । मातृपित्रादिवचनवदपत्यानामणुव्रतानां शिक्षाप्रदायकानि अविनाशकारकाणीत्यर्थः। अथ चशब्देन गृहीतम् अपरमपि श्रावकवतं प्रतिपादयन् सूत्रमिदमाचष्टे--
मारणान्तिकीं सल्लेखनां जोषिता ॥२२॥ निजपरिणामेन पूर्वभवादुपार्जितमायुः इन्द्रियाणि च बलानि च तेषां कारणवशेन योऽसौ विनाशः संक्षयः तन्मरणमुच्यते । "मृङ् प्राणत्यागे"[ ] इति वचनात् । मरणमेवान्तः सद्भवावसानं मरणान्तः, मरणान्तः प्रयोजनं यस्याः सल्लेखनायाः सा मारणान्तिकी तां मारणान्तिकीम् । सत्शब्दः सम्यगर्थवाचकः । तेनायमर्थः-सत् सम्यक् लेखना
कायस्य कषायाणां च कृशीकरणं तनूकरणं सल्लेखना । कायस्य सल्लेखना बाह्यसल्लेखना। २५ कषायाणां सल्लेखना अभ्यन्तरा सल्लेखना। क्रमेण कायकरणहापना कषायाणां च हापना
सल्लेखनेत्युच्यते । तां सल्लेखनां जोषिता प्रीत्या सेविता पुमान् अगारी गृही भवति । पूर्वोक्तचकारात् मारणान्तिकी सल्लेखनां जोषिता यतिश्च भवति । ननु 'प्रीत्या सेविता' इति किमर्थमुच्यते ? अर्थविशेषोपपादनार्थम् । कोऽसौ अर्थविशेषः ? यः पुमान् सल्लेखनां
प्रीत्या सेक्ते प्रकटं भजते, यस्तु प्रीतावसत्यां भजते स व्रतेषु अनादरः कथ्यते तेन बलात्कारेण ३० सल्लेखना न कार्यते, सन्न्यासस्य प्रीतो सत्यां स्वयमेव सल्लेखनां करोति । तेन सूरिणा जुषी धातुः प्रयुक्तः । ननु स्वयमेव क्रियमाणायां सल्लेखनायाम अभिसन्धिपूर्वकं प्राणविसर्जनादात्म१ --मण्डलादी- आ०, ब०, ज०। १ पूर्वभये दुपा- ता० । २ तद्भावावसानं आ०, ब०, प० ।
For Private And Personal Use Only