SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७/२१] सप्तमोऽध्यायः २४५ दीनां हिंसोपकरणानां यो विक्रयः क्रियते व्यवहारश्च क्रियते स्वयं वा सङ्ग्रहो विधीयते तत् हिंसाप्रदानमुच्यते । अथ हिंसाप्रवर्तकं शास्त्रम् अश्वमेधादि, रागप्रवर्तकं शास्त्रं कुक्कोकनामादि, द्वेषप्रवर्तक शास्त्रं नानाप्रकारम् , मधुमासादिप्रवर्तकं शास्त्रं स्मृत्यादि, तेषां शास्त्राणां कथनं श्रवण शिक्षणं व्यापारश्च दुःश्रुतिरुच्यते । तथाऽनर्थकं पर्यटनं पर्यटनविषयोपसेवनम् अनर्थदण्ड उच्यते । तस्य सर्वस्यापि परिहरणम् अनर्थदण्डविरतिव्रतनामकं तृतीयं व्रतं भवति । एतानि ५ त्रीणि व्रतानि पञ्चानामणुव्रतानां गुणस्य कारकत्वादनुवर्द्धनत्वाद् गुणत्रतानीति कथ्यन्ते । सामायिकम-समशब्दः एकत्वे एकीभावे वर्तते, यथा सजतं घृतं सङ्गतं तैलम् एकीभूतमित्यर्थः । अयनमयः, सम एकत्वेन अयनं गमनं परिणमनं समयः, समय एव सामायिकम् स्वार्थे इकण् । अथवा समयः प्रयोजनमस्येति सामायिक प्रयोजनार्थ इकण् । कोऽर्थः ? देववन्दनायां निःसंक्लेशं सर्वप्राणिसमताचिन्तनं सामायिकमित्यर्थः । एतावति देशे एतावति १० काले अहं सामायिके स्थास्यामीति या कृता प्रतिज्ञा वर्तते तावति काले सर्वसावद्ययोगविरतत्वाद् गृहस्थोऽपि महाव्रतीत्युपचर्यते। तर्हि स गृहस्थः तस्मिन् काले किं संयमी भवति ? नैवम् , संयमघातकर्मोदयसद्भावात् । उक्तञ्च--- "प्रत्याख्यानतनुत्वान्मन्दतराश्चरणमोहपरिणामाः। सत्त्वेन दुरवधारा महाव्रताय प्रकल्पन्ते ॥१॥" [ रत्नक० ३।२५] १५ प्रत्याख्यानशब्देन संयमघातकतृतीयकषायचतुष्क ज्ञातव्यम् । तर्हि तस्मिन् सामायिकपरिणते गृहस्थे महाव्रतत्वाभावा; तन्न, उपचारान्महाव्रतत्वाभावो न भवति, यथा राजत्वं विनापि सामान्योऽपि क्षत्रियः राजकुल इत्युच्यते यथा च बहुदेशे प्राप्तो देवदत्तः क्वचित्कचिदप्राप्तोऽपि सर्वगत इत्युच्यते, तथा च चैत्राभिधानोऽयं पुमान् चित्राद्यसद्भावेऽपि चैत्र इत्युच्यते तथा सामायिकत्रतपरिणतोऽगारी परिपूर्णसंयम विनापि महाव्रतीत्युपचर्यते । अष्टमी चतुर्दशी च पर्वद्वयं प्रोषध इत्युपचर्यते। प्रोषचे उपवासः-स्पर्शरसगन्धवर्णशब्दलक्षणेषु पञ्चसु विषयेषु परिहतौत्सुक्यानि पञ्चापि इन्द्रियाणि उपेत्य आगत्य तस्मिन् 'उपवासे वसन्ति इत्युपवासः। अशनपानखाद्यलेह्यलक्षणचतुर्विधाहारपरिहार इत्यर्थः । सर्वसावद्यारम्भस्वशरीरसंस्कारकरणस्नानगन्धमाल्याभरणनस्यादिविवर्जितः पवित्रप्रदेशे मुनिवासे चैत्यालये स्वकीयप्रोषधोपवासमन्दिरे वा धर्मकथां कथयन् शृण्वन् चिन्तयन् वा अवहितान्तकरण एकाग्र- २५ मनाः सन् उपवासं कुर्यात् । स श्रावकः प्रोषधोपवासवतो भवति । ___ उपभोगपरिभोगपरिमाणवतं कथ्यते अशनपानगन्धमाल्यताम्बूलादिक उपभोगः कथ्यते । आच्छादनप्रावरणभूषणशय्यासनगृहयानवाहनवनितादिकः परिभोग उच्यते । उपभोगश्च परिभोगश्च उपभोगपरिभोगौ तयोः परिमाणम् उपभोगपरिभोगपरिमाणम् । भोगोपभोगपरिमाणमिति च कचित्पाठो वर्तते । तत्र अशनादिकं यत्सकृद्भुज्यते स भोगः, वस्रवनि- ३० १ -न् काले उप- आ०, १०, ज०। २ -रणादिवि- आ०, ब०, ज० । ३ पवित्रदेशे आ०, ब०, ज० । For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy