SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [७२१ २४४ तत्त्वार्थवृत्ती अतिथिसंविभागवतश्च तानि दिग्देशानर्थदण्डविरतिसामायिकपोषधोपवासोपभोगपरिभोगपरिमाणातिथिसंविभागवतानि, तैः सम्पन्नः संयुक्तो यो गृही भवति स विरताविरतोऽगारोति कथ्यते । चकारोऽनुक्तसमुच्चयार्थः । तेन वक्ष्यमाणसल्लेखनादियुक्तः अगारीति , कथ्यते । अस्यायमर्थः-पूर्वदक्षिणपश्चिमोत्तराश्चतस्रो दिशः, अग्निकोणनैर्ऋत्यकोणवायुकोणेशान५ कोणलक्षणाश्चतस्रो विदिशः प्रतिदिशश्च कथ्यन्ते, ता अपि दिक्शब्देन लभ्यन्ते, तासु दिक्षु प्रदिक्षु च हिमाचलविन्ध्यपर्वतादिकम् अभिज्ञानपूर्वक मर्यादा कृत्या परतो नियमग्रहणं दिग्विरतिव्रतमुच्यते। तेन च दिग्विरतिव्रतेन बहिःस्थितस्थावरजङ्गमप्राणिनां सर्वथाविराधनाभावाद् गृहस्थस्यापि महाव्रतत्वमायाति । तस्मादहिःक्षेत्रे मुक्त दिग्बाह्यप्रदेशे धनादिलाभे सत्यपि मनोव्यापारनिषेधात् लोभनिषेधश्चागारिणो भवति । गन्तव्यायामपि दिशि नियतदेशाद् ग्रामनदीक्षेत्रयोजनवनगृहकटकादिलक्षणात् परतो विरमणं देशविरतिव्रतमुच्यते। इदं हि व्रतं दिग्विरतिव्रतमध्ये अन्तर्ऋतमुत्पन्नम् । विशेषेण तु सपापस्थाने व्रतभङ्गसद्भावस्थाने खुरासानमूलस्थानमखस्थानहिरमजस्थानादिगमनवर्जन देशविरतिव्रतमुच्यते। तेनापि व्रतेन त्रसस्थावरहिंसानिवर्तनाद् गृहस्थस्यापि महाव्रतत्वं लोभनिवृत्तिश्चोपचर्यते। १५ अनर्थदण्डः पश्चप्रकारः-अपध्यानपापोपदेशप्रमादचरितहिंसाप्रदानदुःश्रुतिभेदात् । तत्रापध्यानलक्षणं कथ्यते-परप्राणिनां जयपराजयहननबन्धनप्रतीकविध्वंसनस्वापतेयाऽपहरणताडनादिकं द्वेषात् परकलत्राबुद्दालनं रागात् कथं भवेदिति मनःपरिणामप्रवर्तनम् अपध्यानमुच्यते। द्वितीयोऽनर्थदण्डः पापोपदेशनामा। स चतुःप्रकारः-तथाहि अस्मात्पूर्वादि देशाद् दासीदासान् अल्पमूल्यसुलभानादाय अन्यस्मिन् गुर्जरादिदेशे तद्विक्रयो यदि क्रियते २० तदा महान् धनलाभो भवेदिति क्लेशवणिज्या कथ्यते ॥१।। अस्माद्देशात् सुरभिमहिषीबलीवर्द क्रमेलकगन्धर्वादीन यदि अन्यत्र देशे विक्रीणोते तदा महान् लाभो भवतीति तिर्यग्वणिज्यानामको द्वितीयः पापोपदेशो भवति ।। २ ।। शाकुनिकाः पक्षिमारकाः, वागुरिकाः मृगवराहादिमारकाः, धीवराः मत्स्यमारकाः, इत्यादीनां पापोपकर्मोपजीविनाम ईदृशीं वार्ता कथयति अस्मिन् प्रदेशे वनजलाधुपलक्षिते मृगवरातित्तिरमत्स्यादयो बहवः सन्तीति कथनं बधकोप२५ देशनामा तृतीयः पापोपदेशः कथ्यते ॥३॥ पामरादीनामग्रे एवं कथयति भूरेवं कृष्यते उदकमेवं निष्कास्यते वनदाह एवं क्रियते क्षुपादय एवं चिकित्स्यन्ते इत्याद्यारम्भः अनेनोपायेन क्रियते इत्यादिकथनम् आरम्भोपदेशनामा चतुर्थः पापोपदेशो भवति ।।४।। अथ प्रमादचरितनामा तृतीयोऽनर्थदण्डः कथ्यते-प्रयोजनं विना भूमिकुट्टनं जलसेचनम् अप्पित्तसन्धुक्षणं व्यजनादिवातक्षेपणं वृक्षवल्लीदलमूलकुसुमादिछेदनम् इत्याद्यवद्यकर्म३० निर्माणं प्रमादचरितमुच्यते । अथ हिंसाप्रदाननामा चतुर्थोऽनर्थदण्डो निरूप्यते-परप्राणि घातहेतूनां शुनकमार्जारसर्पश्येनादीनां विषकुठारखड्गखनित्रज्वलनरज्ज्वादिबन्धनशृङ्खला १ -सद्भावे स्थानेषुरा- भा०, ब०, ज० । २ मनःपर्ययपरिणा- भा०, ब०, ज० । ३ तनिक्षे- आ०, ब०, ज० । For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy