SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७/२०.२१] सप्तमोऽध्यायः २४३ शून्यागारमठाद्यावासेषु वसन् मुनिरप्यगारी भवति तस्यागारसद्भावात् , तथा च अनिवृत्तविषयतृष्णः केनचिद्धेतुना गृह परिहत्य वने तिष्ठन् गृहस्थोऽप्यनगारो भवति,साधूक्तं भवता; अगारशब्देनात्र भावगृहं सूचितं ज्ञातव्यम्, चारित्रमोहोदये सति गृहसम्बन्धं प्रति अनियमपरिणामः भावागारमभिधीयते । सोऽनियमपरिणामः यस्य पुरुषस्य विद्यते स पुमान् नग्नोsनग्नो वा वने वसन्नपि अगारीत्युच्यते । गृहपरिणामाभावात् जिनचैत्यालयादौ वसन्नपि अन- ५ गार उच्यते । ननु अगारी व्रती न भवति अपरिपूर्णव्रतत्वात् ; तेदयुक्तम् ; नैगमसंग्रहव्यवहारनयत्रयापेक्षया अगारी व्रती भवत्येव पत्तनावासवत् । यथा कश्चित्पुमान् गृहे अपवरके वा वसति स पत्तनावास उच्यते, स किं सर्वस्मिन् पत्तने वसति ? किन्तु पत्तनमध्यस्थितनियतगृहादौ वसति, तथा परिपूर्णानि व्रतानि अप्रतिपालयन्नपि एकदेशव्रताश्रितः पुमान् व्रतीत्युच्यते। एवश्चेत्तर्हि हिंसादीनां पञ्चपातकानां मध्ये किमन्यतमपातकप्रतिनिवृत्तः खल्वगारी व्रती कथ्यते; १० न कथ्यते ; किन्तु पञ्चप्रकारामपि विरतिमपरिपूर्णा प्रतिपालयन् ब्रती कथ्यते। अमुमेवार्थ मुत्तरसूत्रेण समर्थयति अणुव्रतोऽगारी ॥२०॥ अणूनि अल्पानि ब्रतानि यस्य सोऽणुव्रतः सर्वसावधनिवृत्तेरयोगात् । य ईदृशः पुमान स अगारीति कथ्यते । पृथिव्यप्तेजोवायुवनस्पतिकायान् जीवान् अनन्तकायवर्जान्' स्वकार्ये १५ विराधयति, द्वित्रिचतुःपञ्चेन्द्रियान जन्तून् न विराधयति तदादिममणुव्रतमुच्यते । लोभेन मोहेन स्नेहादिना गृहविनाशहेतुना ग्रामवासादिकारणेन वा जीवोऽनृतं वक्ति तस्मादनृतान्निवृत्तो योऽगारी भवति तस्य द्वितीयमणुव्रतं भवति । यद्धनं निजमपि संक्लेशेन गृह्यते तत्परपीडाकरम् , यच्च नृपभीतिवशान्निश्चयेन परिहृतमपि यद्दत्तं धनं तस्मिन् धने परिहतादरो यः पुमान् स श्रावकस्तृतीयमणुव्रतं प्राप्नोति । मुमानित्युक्ते योषिदपि लभ्यते तस्या अपि तृतीय- २० मणुव्रतं भवति । एवं यथासम्भवं शब्दस्यार्थो वेदितव्यः । स्वीकृताऽस्वीकृता च या परस्त्री भवति तस्यां यो गृही रतिं न करोति स चतुर्थमणुव्रतं प्राप्नोति । क्षेत्रवास्तुधनधान्यहिरण्यसुवर्णदासी-दासादीनां निजेच्छावशाद् येन गृहिणा परिमाणं कृतं स गृही पञ्चममणुव्रतं प्राप्नोति । अथ महातिनः गृहस्थस्य च किमेतावानेव विशेषः किं वाऽन्योऽपि कश्चिद् विशे- २५ षोऽस्ति इति प्रश्ने सूत्रमिदमाहुःदिग्देशानर्थदण्डविरतिसामायिकप्रोषधोपवासोपभोगपरिभोगपरि माणातिथिसंविभागवतसम्पन्नश्च ॥२१॥ दिशश्च देशाश्च अनर्थदण्डाश्च दिग्देशानर्थदण्डाः तेभ्यो विरतिः दिग्देशानर्थदण्डविरतिः। विरतिशब्दः प्रत्येकं प्रयुज्यते । तेनायं विग्रहः-दिग्विरतिव्रतं च देशविरतिव्रतं च ३० अनर्थदण्डविरतिव्रतं च सामायिकत्रतं च प्रोषधोपवासत्रतं च उपभोगपरिभोगपरिमाणवतं च १ तदुक्तम् आ०, २०, ज० । २ -कायावर्जनात् स्व- आ०, ब०, ज० । For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy