________________
Shri Mahavir Jain Aradhana Kendra
१०
तत्वार्थवृत्ती
"बाह्यग्रन्थविहीना दरिद्रमनुजाः स्वपापतः सन्ति ।
पुनरभ्यन्तरसङ्गत्यागी लोकेषु दुर्लभो जीवः || १ ||" [ अभ्यन्तरपरिग्रहाश्चतुर्दश । बाह्यपरिग्रहास्तु दश । तथा चोकम“मिथ्यात्ववेदहास्यादिषट्कषाय चतुष्टयम् ।
रागद्वेषौ तु सङ्गाः स्युरन्तरङ्गाश्चतुर्दश ॥१॥
क्षेत्रं वास्तु धनं धान्यं द्विपदश्च चतुष्पदम् ।
यानं शयनासनं कुप्यं भाण्डञ्चेति बहिर्दश ||२||" [ ] अथ हिंसादितसम्पन्नः पुमान् कीदृशो भवतीति प्रश्ने सूत्रमिदमाहु:निःशल्यो व्रती ॥ १८ ॥
शृणाति विध्वंसयति हिनस्तीति शल्यमुच्यते । वपुरनुप्रविश्य दुःखमुत्पादयति बाणाद्यायुधशल्यम् । शल्यमिव शल्यं प्राणिनां बाधाकरत्वात् शारीरमानस दुःखकारणत्वात् । कर्मोदय विकृतिः शल्यमुपचारात् । तच्छल्यं त्रिप्रकारम् - मायाशल्यं मिथ्यादर्शनशल्यं निदानशल्यचेति । तत्र माया परवञ्चनम् । मिध्यादर्शनं तत्त्वार्थश्रद्धानाभावः । निदानं विषयसुखाभिलाषः । एवंविधात्त्रिप्रकारात् शल्यात् निष्क्रान्तो निर्गतो निःशल्यः । १५ योऽसौ निःशल्यः स एव व्रतीत्युच्यते । अत्र किच्चिद्यते मीमांस्यते विचार्यत इति यावत् । निःशल्यः किल शल्याभावाद् भवति, व्रताश्रयणाद्व्रती भवति, न हि निःशल्यो व्रती भवितुमर्हति यथा देवदत्तः केवलदण्डधारी छत्रीति नोच्यते तथा निःशल्यो व्रती न भवति; अयुक्तमेवोक्तं भवता; निःशल्यमात्रो व्रती न भवति किन्तु उभयविशेषणविशिष्टः पुमान् ती भवति । निःशल्यो व्रतोपपन्नश्च व्रतीत्युच्यते । हिंसादिविरमणमात्राद्व्रती न भवति किन्तु २० हिंसादिविरमणयुतः शल्यरहितश्च व्रती कथ्यते । अत्रार्थे दृष्टान्तः -- प्रभूतदुग्ध घृतसहितः पुमान् गोमानित्युच्यते यस्य तु पुरुहू (ह) दुग्धाज्यादिकं नास्ति स विद्यमानास्वपि अन्यासु गोमान् नोच्यते, तथा शल्यसंयुक्तः पुमान् व्रतेषु विद्यमानेष्वपि व्रती न कध्यते, अहिंसादितानां विशिष्टं फलं शल्यवान् न विन्दति । निःशल्यस्तु व्रती सन् अहिंसादित्रतानां विशिष्टं फलं लभत इत्यर्थः ।
1
अथ व्रतोपपन्नः पुमान् कतिभेदो भवतीति प्रश्ने सूत्रमिदमुच्यते ।
२५
www.kobatirth.org
२४२
Acharya Shri Kailassagarsuri Gyanmandir
१ पुरुषस्य दु- ज० । पुरुहूतदु- आ०, ब० !
अगार्य्यनगारश्च ॥ १९॥
अङ्गयते गम्यते प्रतिश्रयार्थिभिः पुरुषैः गृहप्रयोजनवद्भिः पुरुषैरित्यगारं गृहमुच्यते । गृहं पत्यमावासो विद्यते यस्य स अगारी । न विद्यते अगारं यस्य सोऽनगारः । अगारी अनगारच द्विप्रकारो व्रती भवति । चकारः परस्परसमुच्चयार्थः । एवचेत्तर्हि जिनगेह
२ विशिष्टक - आ०,
For Private And Personal Use Only
༥༠
[ ७।१८-१९
ज० ।
]