________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७/१७]
सप्तमोऽध्यायः घाते घातेऽसंख्येयाः कोटयो जन्तवो म्रियन्ते इत्यर्थः । तथा कक्षद्वये स्तनान्तरे नाभौ स्मरमन्दिरे च स्त्रीणां प्राणिन उत्पद्यन्ते तत्र करादिव्यापारे ते म्रियन्ते । मैथुनाथ मृषा वादं वक्ति, अदत्तमप्यादत्ते, बाह्माभ्यन्तरं परिग्रहश्च । अत्र आरक्षकोपाख्यानमुद्भावनीयं स्तेये सत्यघोषवत् ।
अथ परिमहलक्षणसूत्रमुच्यते
मूर्छा परिग्रहः ॥१७॥ मूर्छनं मूछी, परिगृह्यते परिग्रहः । या मूर्छा सा परिग्रह इत्युच्यते । काऽसौ मूर्छा ? अन्याबलीवर्दगवरगर्वरीवाजिबडवादासीदासकलत्रपुत्रप्रभृतिश्चेतनः परिग्रहः । शौक्तिकेयमाणिक्यपुष्परागवैडूर्य्यपद्मरागहीरकेन्द्रनीलगरुडोद्गाराश्मगर्भदुर्वर्णसुवर्णपट्टकूलचीनाम्बरताम्रपिचव्यघृततैलगुडशर्करास्वापतेयप्रभृतिरचेतनो बाह्यपरिग्रहः । रागद्वेषमदमोह- १० कषायप्रभृतिरभ्यन्तर उपधिः । तस्योभयप्रकारस्यापि परिग्रहस्य संरक्षणे उपार्जने - संस्करणे वर्द्धनादौ व्यापारो मनोऽभिलाषः मूर्छा प्रतिपाद्यते, न तु वातपित्तश्लेष्माद्युत्पादितोऽचेतनस्वभावो मूर्छा भण्यते "मूर्छा मोहसमुच्छ्राययोः" [ पा० धातुपा० भ्वा० २१९ ] इति वचनात् । मूच्छिरयं सामान्येन मोहपरिणामे वर्तते । यः सामान्येनोक्तोऽर्थः स विशेषेष्वपि वर्तते, तेन सामान्यार्थमाश्रित्याचेतनत्वलक्षणोऽर्थो नाश्रयणीयः, किन्तु विशेष- १५ लक्षणोऽर्थो मनोऽभिलाषलक्षणोऽर्थो मूछिधात्वर्थोऽत्र गृह्यते । एवं चेद् बाह्याः परिग्रहाः न भवन्ति मनोऽभिलाषमात्राभ्यन्तर परिग्रहार्थपरिग्रहात् ; तन्न युक्तमुक्तं भवता; मनोऽभिलाषस्य प्रधानत्वात् अभ्यन्तर एव परिग्रहः सङ्गृहीतः, बाह्यपरिग्रहस्य गौणत्वात् । तेन ममत्वमेव परिग्रह उक्तः। तर्हि बाह्यः परिग्रहो न भवत्येव; सत्यम् ; बाह्यः परिग्रहो मूछ हेतुस्यात् सोऽपि परिग्रह उच्यते । तेन आहारभयमैथुनादियुक्तः पुमान् सपरिग्रहो भवति; सज्ञ! - २० नामपि ममेदमिति सङ्कल्पाश्रयत्वात् रागद्वेषमोहादिपरिणामवन्नास्ति दोषः। प्रमत्तयोगादिति पदमनुवर्तते तेन यस्य प्रमत्तयोगः स सपरिग्रहः यस्य तु प्रमत्तयोगो न वर्तते सोऽपरिग्रहः । सम्यग्दर्शनज्ञानचारित्रतपोयुक्त प्रमादरहितो निर्मोहः तस्य मनोऽभिलाघलक्षणा मूर्छा नास्ति निःपरिग्रहत्वञ्च तस्य सिद्धम् । ननु ज्ञानदर्शनचारित्रतपोलक्षणः किं परिग्रहो न भवति १ न भवत्येव, ज्ञानादीनाम् आत्मस्वभावानामहेयत्वादपरिग्रहत्वं सिद्धम् । “यस्त्यक्तुं २५ शक्यते स एव परिग्रह"[ ] इत्यभिधानात् । रागद्वेषादयस्तु कर्मोदयाधीनाः । अनात्मस्वभावा हेयरूपारतेषु सङ्कल्पः परिग्रह इति सङ्गच्छते। तत्र प्राणातिपातोsवश्यम्भावी तदर्थं चासत्यं वदति स्तैन्यश्च विद्धाति अब्रह्मकर्मणि नियतं यत्नवान् भवति । पूर्वोक्तः पातकैस्तु नरकादिषु उत्पद्यते तत्र तु पञ्चप्रकारादि दुःखं भुन्ते । तेन मुख्यतया रागादिमनोऽभिलाषः परिग्रह इत्यायातम् । तथा चोक्तम्--
.३१
For Private And Personal Use Only