________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४० तत्त्वार्थवृत्तौ
७१५-१६] बन्धनादिका वैरकरं कलहादिकरम् उल्लासकर गुर्वाद्यवज्ञाकरं तत्सर्वमनृतमित्युच्यते । अनृ. तस्य विवक्षापि अनृतवचनोपायचिन्तनमपि प्रमत्तयोगादनृतमुच्यते। त्याज्यानुष्ठानाद्यनुवदनमपि नानृतं प्रमत्तयोगाभावात् । एवं प्रमत्तयोगादिति उत्तरत्रापि योज्यम् । — अथ स्तेयलक्षणमुच्यते
अदत्तादानं स्तेयम् ॥१५॥ दीयते स्म दत्तं न दत्तम् अदत्तम् , अदत्तस्य आदानं ग्रहणम् अदत्तादानं स्तेयं चौर्य भवति । यल्लोकः स्वीकृतं सर्वलोकाप्रवृत्तिगोचरः तद्वस्तु अदत्तम् , तस्य ग्रहणं जिघृक्षा वा ग्रहणोपायचिन्तनं च स्ते यमुच्यते । ननु यदि अदत्तादानं स्तेयम् तर्हि कर्मनोकर्मप्रहणमपि स्तेयं भवेत परैरदत्तत्वात्; साधूक्तं भवता; यत्र दानमादानं च सम्भवति तत्रैव स्तेयव्यव१० हृतिर्भवति अदत्तग्रहणवचनस्य सामर्थ्यात् , दातृसद्धावे ग्राहकास्तित्वात् , कर्म-नोकर्मग्रहणे
दायकः कोऽपि नास्ति अन्यत्रात्मपरिणामात् , त्रिभुवनभृततद्योग्याणुवर्गणानामस्वामिकत्वात् नैष दोषः। नन्वेवं सति मुनीनां प्रामनगरादिपर्यटनावसरे रथ्याद्वारादिप्रवेशे अदत्तादानं सञ्जायते तेषां सस्वामिकत्वात् मुनीनामनभिहितत्वाच्च, इदमपि साधुक्तं भवता; नगरप्रामादिषु
रथ्याद्वारादिप्रवेशादिषु च सर्वजनसामान्यतया तत्र प्रवृत्तिर्मुक्तव वर्तते । कस्मात् ? अर्थापत्ति१५ प्रमाणात्। कार्थापत्तिरत्र वर्तते इति चेत् ? उच्यते-पिहितद्वारादिषु मुनिन प्रविशेत्
अपिहितद्वारादिषु प्रविशेदित्यर्थापादनात् । पिहितद्वारादिषु यदि मुनीनाममुक्तिः अपिहितद्वारादिषु मुक्तिरापद्यत एव। अथवा प्रमत्तयोगाददत्तादानं स्तेयं भवति, न रथ्यादिषु प्रविशतां मुनीनां प्रमत्तयोगो वर्तते, तेन बाह्यवस्तुग्रहणे तदग्रहणे च सङ्क्लेशपरिणामसद्भावात् स्तेयं तदभावे न स्तेयमिति । २० अथाब्रह्मलक्षणमुच्यते
मैथुनमब्रह्म ॥१६॥ मिथुनस्य कर्म मैथुनम् । किं तत् मिथुनस्य कर्म ? स्त्रीपुरुषयोश्चारित्रमोहविपाके रागपरिणतिप्राप्तयोरनन्योन्यपर्वणं (स्पर्शन) प्रति अभिलाषः स्पर्शोपायचिन्तनं च मिथुनकर्मो
च्यते । रागपरिणतेरभावे न स्पर्शनमात्रमब्रह्मोच्यते । लोकेऽप्यावालगोपालादिप्रसिद्धमेतत्-यत् २५ स्त्रीपुंसयोः रागपरिणामकारणं चेष्टितं मैथुनम् । शास्त्रे च "अश्ववृषभयोमैथुनेच्छा [ ]"
मिथुनकर्म । ततः कारणात् प्रमत्तयोगात् स्त्रीपुंस-पुरुषपुरुषादिमिथुनगोचरं रतिसुखार्थचेष्टनं मैथुनमित्यायातम् । अहिंसादयो गुणा यस्मिन् परिरक्षमाणे बृहन्ति वृद्धिं प्रयान्ति तद्ब्रह्मोच्यते। न ब्रह्म अब्रह्म । यन्मैथुनं तदब्रह्म इति सूत्रार्थः। मैथुने प्रवर्त्तमानो जीवः हिंसादिकं करोति, स्थावरजङ्गमान जीवान् विध्वंसयति। तथा चोक्तम्
"मैथुनाचरणे मूढ नियन्ते जन्तुकोटयः ।
योनिरन्ध्रसमुत्पन्ना लिङ्गसंघट्टपीडिताः" ॥१॥" [ज्ञानार्ण० १३२ ] १-पीडनात् आ०, ब०, ज० ।
For Private And Personal Use Only