SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३९ ७।१४] सप्तमोऽध्याय: मुनेः तण्णिमित्ते मरणादिकारणमात्रेऽपि सति । किन्न भवति ? बंधो कर्मबन्धः। कियान ? ' सुमुहो वि स्तोकोऽपि समये जिनसूत्रे न हि देसिदो नैव कथितः । अमुमेवार्थं दृष्टान्तेन द्रढयति-मूर्छा परिप्रणाकाक्षा परिग्रहो चिय परिग्रहश्चैव किल परिग्रहग्रहणाकाङ्क्षा परिग्रहमुच्यते । कुतः ? अम्झप्पपमाणदो अध्यात्मप्रमाणतः अन्तःसङ्कल्पानतिक्रमेणेत्यर्थः भणिदो परिग्रहः कथितः। एतेन किमुक्तं भवति प्राणातिपाताभावेऽपि प्रमत्तयोगमात्रात् ५ हिंसा भवत्येव । तथा चोक्तम्-- "मरदु व जियदु व जीवो अयदाचारस्स णिच्छिदा हिंसा । पयदस्स णथि बंधो हिंसामत्तेण समिदस्स ॥१॥ [पवयणसा० ३।१७] अस्यायमर्थः-म्रियतां वा जीवतु वा जीवः अयदाचारस्स अयत्नपरस्य जीवस्य १० निश्चिता हिंसा भवति । हिंसायामकृतायामपि अयत्नवतः पुरुषस्य पापं लगत्येव । पयदस्स प्रयत्नपरस्य' पुंसः बन्धो न भवति। केन ? हिंसामत्तेण हिंसामात्रेण समिदस्स समितिपरस्य । अत्र परिणामस्य प्राधान्यमुक्तम् । तथा चोक्तम् "अध्ननपि भवेत्पापी निघ्ननपि न पापभाक् । परिणामविशेषेण यथा धीवरकर्षकौ ॥१॥" [यश० उ० पृ० ३३५] १५ अन्यच्च "स्वयमेवात्मनात्मानं हिनस्त्यात्मा प्रमादवान् । पूर्व प्राण्यन्तराणां तु पश्चात्स्याद्वा न वधः ॥२॥" [ ] . अथ अनृतलक्षणमुच्यते असदभिधानमनृतम् ॥१४॥ अस्तीति सत् न सत् असत् अप्रशस्तमित्यर्थः । “वर्तमाने शत्त" [का- सू० ४।४।२] असतः असत्यवचनस्य अभिधानम् अनृतमुच्यते। न ऋतं न सत्यमनृतं यत् असदभिधानमसत्यकथनं तत् अनृतं भवति । विद्यमानार्थस्य अविद्यमानार्थस्य वा प्राणिपीडाकरस्य वचनस्य यत् कथनं तत् अनृतं भवति । यत्प्रमत्तयोगादुच्यते तदनृतमित्यर्थः । अहिंसाव्रतप्रतिपालनार्थ सत्यादीनि व्रतानि इति प्रागेवोक्तम, तेन यत् हिंसाकरं वचनं तदनृतमिति निश्चितम् । अत्र २५ दृष्टान्तः-वसुनृपः यथा धनश्री हिंसायाम् । तथा यद्वचनं कर्णकर्कशं कर्णशूलपायं हृदयनिष्ठुरं मनःपीडाकर विप्रलापप्रायं विरुद्धप्रलापप्रायं विरोधवचनमिति यावत्, प्राणिवध १३- स्य प्राधान्यपुंसः आ०, ब०, ज० १२ उद्धृताऽयं स० सि० ३।१३ । ३ -मानस्य मा०,०, ज०। For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy