SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३८ तत्त्वार्थवृत्ती मशक्यत्वात् तत्र तावत् हिंसालक्षणप्रतिपादकं सूत्रमिदमुच्यते प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा ॥ १३ ।। प्रमापति स्म प्रमत्तः प्रमादयुक्तः पुमान् कषायसंयुक्तात्मपरिणाम इत्यर्थः। अथवा इन्द्रियाणां प्रचारमनवधार्य अविचार्य यः पुमान् प्रवर्तते स प्रमत्तः । अथवा प्रवृद्धकषायोदय'५ प्रविष्टः प्राणातिपातादिहेतुषु स्थित अहिंसायां शाठ्येन यतते कपटेन यत्नं करोति न परमार्थेन स प्रमत्त उच्यते । अथवा पञ्चदशप्रमादयुक्तः प्रमत्तः । के ते पञ्चदश प्रमादाः ? चतस्रो विकथाः चत्वारः कषायाः पनेन्द्रियाणि निद्रा प्रेमा च । तथा चोक्तम् "विकहा तह य कसाया इंदियणिद्दा तहेव पणओ य। चदुचदुपणमेगेग्गे होंति पमदा य पण्णरस ॥१॥" [ पंचसं० १।१५ ] १० प्रमत्तस्य योगः कायवाल्मनाकर्मरूपः प्रमत्तयोगः, तस्मात् प्रमत्तयोगात् । "पंच वि इंदियपाणा मणवचकाएण तिण्णि बलपाणा । आणप्पाणप्पाणा आउगपाणेण होंति दस पाणा ॥" - [बोधपा० गा० ३५] इति गाथाकथितक्रमेण ये प्राणिनां दश प्राणास्तेषां यथासम्भवं व्यपरोपणं वियोग१५ करणं व्यपरोपणचिन्तनं व्यपरोपणाभिमुख्यं वा हिंसेत्युच्यते । प्रमत्तयोगाभावे प्राणव्यपरो पणमपि हिंसा न भवति । सा हिंसा प्राणिनां दुःखहेतुत्वादधर्मकारणं ज्ञातव्या । चेत्प्रमत्तयोगो न भवति तदा केवलं प्राणव्यपरोपणमात्रम् अधर्माय न भवति । "वियोजयति चासुभिर्न च वधेन संयुज्यते ।" ['द्वात्रिंशद्वा० ३।१६] इत्यभिधानात् । तथा चोक्तम् "उच्चालिदम्मि पादे इरियासमिदस्स णिग्गमट्ठाणे । आवादेज्ज कुलिंगो मरेज तज्जोगमासेज ॥ १॥ ण हि तस्स तण्णिमित्ते बंधो सुहुमो वि देसिदो समए । मुच्छा परिग्गहोच्चि य अज्झप्पपमाणदो भणिदो ॥ २ ॥" [पवयणसा० क्षे० ३।१६, १७ ] ३० एतयोर्गाथयोरर्थसूचनं यथा-पादे चरणे उच्चालिदग्मि गमने प्रवृत्ते सति इरिया समिदस्स ईर्यासमितियुक्तस्य मुनेः णिग्गमणट्ठाणे निर्गमनस्थाने पादारोपणस्थाने आवादेज यदि आपतेत् आगच्छेत् पादेन चम्पिते कुलिङ्गो सूक्ष्मजीवो मरेज म्रियेत वा तज्जोगमासेज्ज पादसंयोगमाश्रित्य । ण हि तस्स तण्णिमित्ते न हि नैव न भवति तस्य जन्तुचम्पकस्य १ -प्रतिष्ठः आ०, ब०, ज०। For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy