SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७।२ ] सप्तमोऽध्यायः २३७ क्लिश्यमानाः । तत्त्वार्था कर्णनस्त्री करणाभ्यामृते अनुत्पन्नसम्यक्चादिगुणा न विनेतुं शिक्षयितुं शक्यन्ते ये ते अविनेयाः । सत्त्वाश्च गुणाधिंकाश्च क्लिश्यमानाश्च अविनेयाश्च सत्त्वगुणाधिकक्लिश्यमानाविनेयास्तेषु तथोक्तेषु । अस्यायमर्थः - सत्वेषु सर्वजी वेषु मैत्री भावनीया गुणाधिकेषु सद्दृष्ट्यादिषु प्रमोदो विधेयः । क्लिश्यमानेषु दुःखीभवत्सु. प्राणिषु कारुण्यं करुणाभावो विधेयः । अविनेयेषु अविनीतेषु मिध्यादृचादिषु जिनधर्म - ५ बाह्येषु निर्गुणेषु प्राणिषु माध्यस्थ्यं मध्यस्थता औदासीन्यं भावनीयम् । एतासु भावनासु भाव्यमानासु अहिंसादयो व्रताः मनागूना अपि परिपूर्णा भवन्ति । चकारः परस्परसमुच्चये वर्तते पूर्वोक्तसूत्रार्थेषु अत्र च । अथ भूयोऽपि व्रतभावनाविशेषप्रतिपादनार्थ सूत्रमिदमाहुः - जगकायस्वभाव वा संवेगवैराग्यार्थम् ॥१२॥ गच्छतीति जगद् “द्युतिगमोर्द्वे च" [ का० सू० ४ ४ । ५८ ] इति साधुः । जगच्च कायश्च जगत्कायौ जगत्काययोः स्वभावौ जगत्कायस्वभावौ । संवेजनं संवेगः, विरागस्य भावः कर्म वा वैराग्यम् । संवेगश्च संसारभीरुता धर्मानुरागो वा वैराग्यञ्च शरीरभोगादिनिर्वेदः संवेगवैराग्ये, तयोरर्थः प्रयोजनं यस्मिन् भावनकर्मणि तत् संवेगवैराग्यार्थम् । जगत्स्वभावः संसारस्वरूपचिन्तनं लोकस्वरूपभावनम् कायस्वभावः अशुचित्वादिस्वरूप - १५ चिन्तनम् ! एतद् भावनाद्वयं संवेगवैराग्यार्थं भवति । वाशब्दः पक्षान्तरं सूचयति, तेनाहिंसादित्रतानां स्थैर्यार्थं च वेदितव्यम् । १० तत्र तावज्जगत्स्वभावः उच्यते जगत् त्रैलोक्यम् अनादिनिधनम्, अधोजगत् वेत्रासनाकारं मध्यजगत् झल्लरीसदृशम् ऊर्ध्वजगत् मृदङ्गसन्निभम् ऊदुर्ध्वमर्द्दलाकारम् । अस्मिञ्जगति अनादिसंसारे अनादिकालं चतुरशीतिलक्षयोनिषु प्राणिनः शारीरमानसागन्तुक - २० दुःखम सावं भोजं भोजं भुक्त्वा भुक्त्वा पर्यटन्ति परिभ्रमन्ति । अत्र जगति किञ्चिदपि यौवनादिकं नियतं न वर्तते शाश्वतं नास्ति, आयुर्जलबुबुदसमानं भोगसम्पदः तडिन्मेघेन्द्रचापादिविकृति चञ्चलाः । अस्मिञ्जगति जीवस्य इन्द्रवरणेन्द्रचक्रवर्त्यादिकः कोऽपि विपदि त्राता न वर्तते । इदं जगज्जन्मजरामरणस्थानं वर्तते । इत्यादि भावनायाः संसारसंवेगो भवभीरुता भवति, अहिंसादयो बताश्च स्थिरत्वं प्रतिलभन्ते । For Private And Personal Use Only २५ कायस्वभाव उच्यते — कायः खलु अध्रुवः दुःखहेतुः निःसारोऽशुचिः बीभत्सुर्दुर्गन्धः मलमूत्रनिधानं सन्तापहेतुः पापोपार्जन पण्डितः येन केनचित् पदेन पतनशीलः इत्येवं कायस्वभावभावनया विषय रागनिवृत्तिर्भवति, वैराग्यमुत्पद्यते, व्रतानां स्थैर्यच भवति, तेनंतौ जगकायस्वभाव भावनीयौ । अहिंसादीनां पञ्चपातकानां स्वरूपनिरूपणार्थं सूत्राणि मनसि धृत्वा युगपद् वक्तु- ३० १ - दृष्टिषु आ०, ब० ज० । २ सूत्रेष्वत्र च आ०, ब०, ज० । ३ संसारहे- आ०, ब०, ज० ।
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy