SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३६ तत्त्वार्थवृत्तौ . [७।१०-११ पक्षिवत् । परिग्रहोपार्जने तद्रक्षणे तत्क्षये च प्रचुरान्यादीनवानि' समन्तात् लभते । धनैस्तु इन्धनैरिव बर्हिषः तृप्तिर्न भवति । लोभाभिभूतः सन् उचितमनुचितं न जानीते । पात्रेध्वप्यागतेषु मिथ्योत्तरं ददाति । कपाटपुटसन्धिवन्धं विधत्ते, ददाति चेदर्द्धचन्द्रम् । मृतोऽपि सन्निरयादिगतिसरिदशातजलावगाहनं भृशं कुरुते, लोकनिन्दनीयश्च भवति । ५ तेन परिग्रहविरमणं नराणां श्रेयस्करम् । इत्यादिकं हिंसादिपञ्चपातकेषु अपायाऽवद्यदर्शनं नित्यमेव भावितव्यम्। अथ हिंसादिषु पञ्चपातकेषु अन्यापि भावना भावनीयेति सूत्रमुच्यते दुःखमेव वा ॥१०॥ वा-अथवा हिंसादयः पन्च पातकाः दुःखमेव भवन्ति दुःखस्वरूपाण्येवेति भावना २० भावनीया। ननु हिंसादयो दुःखमेव कथं भवन्ति ? सत्यम् ; दुःखकारणात् दुःखम्, यद्वस्तु यस्य कारणं तत्तदेवोच्यते उपचारात् , अन्नं खलु प्राणा इति यथा प्राणानां कारणत्वात् अन्नमपि प्राणा इत्युच्यन्ते । अथवा दुःखकारणस्य कारणत्वात् हिंसादयो दुःखमुच्यन्ते, तथाहि-हिंसादय असातावेदनीयकर्मणः कारणम् , असातावेदनीयञ्च कर्म दुःखस्य कारणं तेन दुःखकारणकारणत्वाद् वा दुःखमित्युपर्यन्ते । यथा 'प्राणिनां धनं प्राणः' इत्युक्त धनं १५ हि अन्नपानकारणम् अन्नपानकच प्राणकारणं तत्र यथा धनं प्राणकारणकारणं प्राणा इत्युपचर्यते तथा दुःखकारणकारणाऽसद्वेद्य कारणत्वाद् हिंसादयोऽपि दुःखमुपचर्यन्ते । इत्येवमपि भावना व्रतस्थैर्यार्थं भवति । ननु विषयेषु रतिसुखसद्भावान् सर्वमेव कथं दुःखम् ? सत्यम् ; विषयरतिसुखं सुखं न भवति वेदनाप्रतीकारत्वात् खर्जूनखादिमार्जनवत् । भूयोऽपि व्रतानां स्थिरीकरणा) भावनाविशेषात् सूत्रेणानेन भगवान्नाह२० मैत्रीप्रमोदकारुण्यमाध्यस्थ्यानि च सत्त्वगुणाधिक क्लिश्यमानाविनेयेषु ॥११॥ . मित्रस्य भावः कर्म वा मैत्री। "यत्स्त्रीनपुंसकाख्या" [ ] इति वचनात स्त्रीत्वम् , नपुंसके तु मंत्र्यमित्यपि भवति । कायवाङ्मनोभिः कृतकारितानुमतैरन्येषां कृच्छानुत्पत्तिकाङ्क्षा मैत्रीत्युच्यते । मनोनयनवदनप्रसन्नतया विक्रियमाणोऽन्तर्भतिरागः २५ प्रमोद इत्युच्यते । हीनदीनकानीनानयनजनानुग्रहत्वं कारुण्यमुच्यते । करुणाया भावः कर्म वा कारुण्यम् । मध्यस्थस्य भावः कर्म वा माध्यस्थ्यम् , रागद्वेषजनितपक्षपातस्याभावः माध्यस्थ्यमुच्यते । मैत्री च प्रमोदश्च कारुण्यच माध्यस्थ्यश्च मैत्रीप्रमोदकारुण्यमाध्यस्थ्यानि। पापकर्मोदयवशात् नानायोनिषु सीदन्ति दुःखीभवन्तीति सत्त्वाः प्राणिनः । ज्ञानतपःसंयमादिभिर्गुणैरधिकाः प्रकृष्टा गुणाधिकाः । असद्वेद्यकर्मविपाकोत्पादितदुःखाः क्लिश्यन्ते इति १ आदीनवो दोषः । २ मैत्रमि-आ०, ब०, ज० । For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy