________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९] सप्तमोऽध्यायः
२३५ अथ यथा व्रतस्थैर्यार्थ भावना क्रियन्ते तथा व्रतस्थैर्यार्थ व्रतविरोधिष्वपि भावना क्रियन्त इत्यभिधेयसूचकं सूत्रमुच्यते
हिंसादिष्विहामुत्रापायावद्यदर्शनम् ॥ ९॥ हिंसा आदिर्येषाम् अनृतस्तेयाब्रह्मपरिग्रहाणां ते हिंसादयः तेषु हिंसादिषु, इह अस्मिन् जन्मनि अमुत्र च भविष्यद्भवान्तरे, अपायश्चाभ्युदयनिःश्रेयसार्थक्रियाविध्वंसकप्रयोगः ५ सप्तभयानि वा, अवयं न उदितं (तुं ) योग्यम् अवद्यं निन्दनमित्यर्थः । अपायश्चावद्यश्च अपायावचे अपायावधयोर्दर्शनम् अपायावद्यदर्शनम् । इहलोके परलोके च अपायावद्यदर्शनं जीवस्य भवति ।
हिंसादिषु पञ्च पातकेषु कृतेष्विति' भावनीयम् । तथाहि-हिंसकः पुमान् लोकानां नित्यमेव उद्वेजनीयो भवति, नित्यानुबद्धवैरश्च सञ्जायते । इह भवेऽपि वधबन्धनादिक्लेशा- १० दीन परिप्राप्नोति, मृतोऽपि सन् नरकादिगति प्रतिलभते । लोके निन्दनीयश्च भवति । तस्मात्कारणात् केनापि हेतुना हिंसा न कर्तव्या। हिंसाविरमणं श्रेयस्कर भवति अजगजवाजिद्विजादीनां हवनं च महानरकपातकं भवति परेषां दुःखजनकत्वात् ।
असत्यवादी पुमान् अविश्वसनीयो भवति । जिह्वाकर्णनासिकादिच्छेदनश्च प्रतिप्राप्नोति । मिथ्यावचनदुःखिताश्च पुरुषा बद्धवैराः सन्तः प्रचुराणि व्यसनानि मिथ्यावादिन १५ उत्पादयन्ति', गर्हणश्च कुर्वन्ति । तस्मात्कारणादसत्यवचनादुपरमणं श्रेयस्करम् ।
परद्रव्यापहारी पुमान् कर्मचाण्डालानामप्युद्वेजनीयो भवति । इहलोकेऽपि निष्ठुरप्रहार-वध-बन्ध-करचरणश्रवणरसनोत्तरदन्तच्छदच्छेदन-सर्वस्वापहरण - "अबालवलियारोहणादिकं प्रतिप्राप्नोति । मृतोऽपि सन्नरकादिगतिगर्तेषु पतति । सर्वलोकनिन्दनीय॑श्च भवति । ततो लोप्तोपजीवनं न श्रेयस्करमिति भावनीयम् ।
अब्रह्मचारी पुमान् मदोन्मत्तो भवति। विभ्रमोपेत उद्भ्रान्तमना यूथनाथ इव करिणीविवञ्चितः परवशः सन् वधबन्धपरिक्लेशान् प्राप्नोति । मोहकर्माभिभूतश्च सन् कार्यमकार्यश्च नो जानीते । स्त्रीलम्पटः सन् दानपूजनजिनस्तवनोपवसनादिकं किमपि पुण्यकर्म नैवाचरति । परपरिग्रहाश्लेषणसङ्गतिकृतरतिश्च अस्मिन्नपि भवे वैरानुबन्धिजनसमूहात् "शेफोविकर्तन-तदादितर्कादिप्रवेश-वध-बन्धसर्वस्वापहरणादिकमपायं प्रतिलभते । २५ मृतोऽपि सन् नरकादिगतिगर्तदुःखकईमनिमज्जनं प्रतिलभते । सर्वलोकनिन्दनीयश्च भवति । तेन स्मरमन्दिररतिविरतिरात्मनः श्रेयस्करीति भावनीयम् ।
सपरिग्रहः पुमान् परिग्रहार्थिनां परिभवनीयो भवति पक्षिणां परिगृहीतमांसखण्ड
१- ध्वपि भा- भा०, ब०, ज० । २ प्रतिप्रा-ता० । ३ वा व्यसनिन उ- आ०, ब०, ज० । ४. -निर्ग्रहण-आ०, ब०, ज०। ५ मुण्डितः सन् गर्दभारोहणादिकम् । अवलवाले- मा०, ब०, ज० । ६-नीयो भ- भा०, ब०, ज० । ७ लिङ्गच्छेद-लिङ्गाग्रभागे शलाकाप्रवेश ।
For Private And Personal Use Only