SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २३४ www.kobatirth.org तत्त्वार्थवृत्त [919-6 'अदत्तादानविरमणव्रतस्य भवन्ति । शून्यागारेषु यस्यावासो भवति स निस्पृहः स्यात् तस्य अदत्तादानविरमणव्रतं स्थिरीभवति । यश्च विमोचितेषु स्थानेषु आवासं करोति तस्यापि मनः परिग्रहेषु निस्पृह भवति तेनापि अदत्तादानविरतिव्रतस्य परमं स्थैर्यं स्यात् । एवं द्वे भावने भवतः । परोपरोधाकरणो ऽपि पराग्रहणात् तत् स्थिरं स्यात् । तथान्तरायादि५ प्रतिपालने मनसा सह चौर्यं न भवति तेनापि तद्वतं स्थिरीभवति । सधर्मभिः सह विसं वादे जिनवचनस्त्यैन्यं भवति, तदभावे तत् स्थिरं स्यात् । १० Acharya Shri Kailassagarsuri Gyanmandir अथेदानीं ब्रह्मचर्यव्रतस्य पच भावना उच्यन्ते - स्त्रीरागकथाश्रवणतन्मनोहराङ्ग निरीक्षणपूर्वरतानुस्मरण वृष्येष्ट रसस्वशरोर संस्कारस्यागाः पञ्च ॥ ७ ॥ atri रागस्य सम्बन्धिनी कथा स्त्रीरागकथा, तस्याः श्रवणमाकर्णनम् । तासां स्त्रीणां मनोहराणि हृदयानुरञ्जकानि यानि अङ्गानि वदनस्तनजघनादीनि तेषां निरीक्षणमवलोकनं तन्मनोहराङ्गनिरीक्षणम् । पूर्वञ्च तत् रतश्च पूर्वरतं पूर्वकालभुक्तभोगः तस्य अनुस्मरणमनुचिन्तनं पूर्वरतानुस्मरणम् । वृषे वृषभे साधवो वृष्याः येषु रसेषु भुक्तेषु पुमान् वृषभवद् उन्मत्तकामो भवति ते रसा वृष्या इत्युच्यन्ते, उपलक्षणत्वात् येषु रसेषु १५ भुक्तेषु वाजीव अश्ववदुन्मत्तकामो भवति ते वाजीकरणरसाः वृषशब्देन उपलक्षकेनोपलक्ष्यन्ते, इष्टा मनोरसनानुरञ्जकाः, वृष्याश्च ते इष्टाञ्च ते च ते रसाः वृष्येष्टरसाः इन्द्रियाणामुत्कटत्वसम्पादका उत्कटरसा इत्यर्थः । स्वमात्मीयं तच्च तच्छरीरच स्वशरीरं निजशरीरं तस्य संस्कारः दन्तनखकेशादिशृङ्गारः स्वशरीरसंस्कारः । स्त्रीरागकथाश्रवणश्च तन्मनोहराङ्गनिरीक्षणश्च पूर्वरतानुस्मरणञ्च वृष्येष्टर साश्च स्वशरीरसंस्कारश्च स्त्रीरागकथाश्रवणतन्मनोहराङ्ग निरीक्षण२० पूर्वरतानुस्मरणवृष्येष्टर सस्वशरीरसंस्काराः तेषां त्यागाः वर्जनानि ते तथोक्ताः । एताः पञ्च भावना ब्रह्मचर्यव्रतस्य स्थिरीकरणार्थं भवन्ति । अपरिग्रहविरमणस्य पञ्च भावना उच्यन्ते मनोज्ञामनोज्ञेन्द्रियविषय रागद्वेषवर्जनानि पञ्च ||८|| मनो जानन्तीति मनोज्ञाश्चित्तानुरञ्जकाः । तद्वपरीता अमनोज्ञाः । मनोज्ञाश्च अमनो२५ ज्ञाश्च मनोज्ञामनोज्ञाः ते च ते इन्द्रियाणां स्पर्शनर सनत्राणचक्षुः श्रोत्राणां विषयाः स्पर्शरसगन्धवर्णशब्दरूपाः तेषु रागश्च द्वेषश्च तयोर्वर्जनानि परित्यागाः पञ्चानामिन्द्रियाणामिष्टेषु विषयेषु रागो न विधीयते अनिष्टेषु च विषयेषु द्वेषो न क्रियते । एताः पञ्च भावनाः परिग्रहप - रित्यागत्रतस्य स्थैर्यार्थं भवन्ति । १- दानवतस्य आ०, ब० ज० । २ तस्य म- आ०, ब० ज० । ३-स्वस्थै- ता० । ४ - णेऽपि ग्रह-आ०, ब०, ज० । ५ सद्व्रतं ता० । ६ - पलभ्यन्ते आ०, ब०, ज० । For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy