SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ७/४-६ ] www.kobatirth.org सप्तमोऽध्यायः तत्र तावत् अहिंसाव्रतस्य पञ्च भावना उच्यन्ते वाङ्मनोगुप्तीर्यादाननिक्षेपणसमित्या लोकितपानभोजनानि पञ्च ॥४॥ I गुप्तिशब्दः द्वयोः प्रत्येकं प्रयुज्यते, वाग्गुप्तिश्च मनोगुप्तिश्च वाङ्मनोगुप्ती । समिति - शब्दः प्रत्येकं द्वयोः सम्बद्धयते, ईर्यासमितिश्च आदाननिक्षेपणसमितिश्च ईर्यादाननिक्षेपण - समिती । पानञ्च भोजनञ्च पानभोजने आलोकिते सूर्यप्रत्यक्षेण पुनः पुनर्निरीक्षिते ये ५ पानभोजने ते आलोकितपानभोजने, अथवा पानश्च भोजन पानभोजनं समाहारो द्वन्द्वः, आलोकितश्च तत् पानभोजनञ्च आलोकितपानभोजनम् । ततः वाङ्मनोगुप्ती च ईर्यादान - निक्षेपणसमिती च आलोकितपानभोजनश्च वाङ्मनोगुप्तीर्यादान निक्षेपण समित्यालोकित पानभोजनानि । एताः पञ्च अहिंसावतभावना वेदितव्याः । ३० Acharya Shri Kailassagarsuri Gyanmandir अथ सत्यव्रतभावनापञ्चकमुच्यते क्रोध लोभ भीरुस्वहा स्पप्रत्याख्यानान्यनुवीचिभाषणञ्च पञ्च ॥ ५ ॥ भीरोर्भावो भीरुत्वम्, हसस्य भावो हास्यम्, क्रोधश्च लोभश्च भीरुत्व हास्यच क्रोध लोभ भीरुत्व हास्यानि तेषां प्रत्याख्यानानि वर्जनानि क्रोध लोभ भीरुत्वहास्य प्रत्याख्यानानि चत्वारि । अनुवीचिभाषणं विचार्य भाषणमनवद्यभाषणं वा पश्चमम् । अस्यायमर्थः - क्रोधप्रत्याख्यानं क्रोधपरिहरणम्, लोभप्रत्याख्यानं 'लोभविवर्जनम्, भीरुत्व- १५ प्रत्याख्यानं भयत्यजनम्, हास्यप्रत्याख्यानं वर्करपरिहरणम्, एतानि चत्वारि निषेधरूपाणि, अनुवीचिभाषणं विधिरूपं कर्त्तव्यतयाऽनुष्ठानम् । चकारः परस्परसमुच्चये वर्तते । एताः पच भावनाः सत्यव्रतस्य वेदितव्याः । अथाऽचर्यव्रतभावनाः पचोच्यन्ते १ -भपरिव- आ०, ब०, ज० । २३३ शून्यागारविमोचितावास परोपरोधाकरण भैक्षशुद्धिसधर्माविसंवादाः पञ्च ॥ ६ ॥ 9 शून्यानि च तानि आगाराणि शून्यागाराणि पर्वतगुहावृक्ष कोटर नदीतटप्रभृतीनि अस्वामिकानि स्थानानि शून्यागाराण्युच्यन्ते । विमोचितानि उसग्रामनगर पत्तनानि शत्रुभिरुद्वासितानि स्थानानि विमोचितान्युच्यन्ते तेषु आवासौ शुन्यागारविमोचितावासौ । परेषामुपरोधस्य ठस्य अकरणं परोपरोधाकरणम् । भिक्षाणां समूहो भैक्षं समूहे अण् २५ भैक्षस्य शुद्धिः भैक्षशुद्धिः, उत्पातनादिदोषरहितता । समानो धर्मो जैनधर्मो येषां ते सधर्माण: "धर्मादनिच् (र) केवलात् " [ पा० सू० ५|४|१२४ ]। विरूपकं सम्मुखीभूय वदनं तवेदं ममेदमिति भाषणं विसंवादः न विसंवादः अविसंवादः, सघर्मभिः सह अविसंवाद : सधर्माविसंवादः । शुन्यागार विमोचितावासौ च परोपरोधाकरणश्च भैक्षशुद्धिश्व सधर्माविसंवादश्च शून्यागारविमोचितावासपरोपरोधाकरण भैक्षशुद्धिसधर्माविसंवादाः पञ्च भावना ३० For Private And Personal Use Only १० २०
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy