________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२३२ तत्त्वार्थवृत्तौ
[७१२-३ व्रतानि हि अहिंसाप्रतिपालनार्थं वर्तन्ते धान्यस्य वृतिवेष्टनवत् । व्रतं हि सर्वसावद्ययोगनिवृत्तिलक्षणमेकं सामायिकमेव छेदोपस्थापनाद्यपेक्षया तु पश्चविधमुच्यते ।
अत्राह कश्चित्-त्रतस्यास्रवकारणत्वं न घटते संवरकारणेसु अन्तर्भावात् “स गुप्तिसमितिधर्मानुप्रेक्षापरीषहजयचारित्रैः" [ ९।२] इति वक्ष्यमाणत्वात् , तत्र दशलक्षणे ५ धर्मे चारित्रे वा व्रतानामन्तर्भावो वर्तते, कथमानवहेतवो व्रतानि भवत्तीति ? साधूक्तं भवता ;
वक्ष्यमाणः संवरः 'निवृत्तिलक्षणो वर्तते, अत्र तु अहिंसासत्यदत्तादानब्रह्मचर्य स्वीकारापरिग्रहत्वाङ्गीकारतया प्रवृत्तिर्वर्तते तेनास्रबहेतवो घटन्ते ब्रतानि । गुप्तिसमित्यादयः संवरस्य परिकर्म वर्तते परिकरोऽस्ति, यः साधुर्वतेषु कृतपरिकर्मा भवति विहितानुष्ठानो भवति स
सुखेन संवरं विदधाति तेन कारणेन व्रतानां पृथकूतया उपदेशो विधीयते । । १० अत्राह कश्चित्-ननु रात्रिभोजनविरमणं षष्ठमणुव्रतं वर्तते तस्येहोपसङ्ख्यानं
नास्ति कथनं न वर्तते तदा वक्तव्यम् ? युक्तमुक्तं भवता ; अहिंसाव्रतस्य पञ्च भावना वक्ष्यन्ते-"वाङ्मनोगुप्तीर्यादाननिक्षेपणसमित्यालोकितपानभोजनानि पञ्च" [४] इति पञ्चसु अहिंसावतभावनासु यदुक्तम् आलोकितपानभोजनं तत् आलोकितपानभोजनं
रात्रौ न घटते, तद्भावनामहणेन रात्रिभोजनविरमणं सङ्गृहीतमेवाचार्यैः । १५ अथ पश्चप्रकारव्रतस्य भेदपरिज्ञानार्थ सूत्रमिदमुच्यते
देशसर्वतोऽणुमहती ॥२॥ देशश्च एकदेशः सर्वश्व परिपूर्णः समस्त इत्यर्थः देशसौं देशसर्वाभ्यां देशसर्वतः । अणु च महच्च अणुमहती। अस्याममर्थः-देशतो विरतिरणुव्रतं भवति सर्वतो विरतिर्महाव्रतं
भवति । अणुव्रतं गृहिणां व्रतम्, महाव्रतं निर्ग्रन्थानां भवति, इत्यनेन श्रावकाचारो यत्याचारश्च २० सूचितो भवति ।
अथ यथा उत्तममौषधं लिकुचफलरसादिभिर्भावितं रुग्दुःखविनाशकं भवति तथा व्रतमपि भावनाभिर्भावितं सत् कमरोगदुःखविनाशकं भवति, तेन कारणेन एकैकस्य व्रतस्य पञ्च पञ्च भावना भवन्ति । 'किमर्थं भवन्ति' इत्युक्ते सूत्रमिदमुच्यते
तत्स्थैर्यार्थ भावना पञ्च पञ्च ।। ३ ।। २५ स्थिरस्य भावः स्थैर्य तेषां व्रतानां स्थैर्य तत्स्थैर्य तत्स्थैर्यस्य अर्थः प्रयोजनं यस्मिन्
"भावनकर्मणि तत्तत्स्थैर्यार्थ पञ्चानां स्थिरीकरणार्थमित्यर्थः । एकैकस्य व्रतस्य पञ्च पश्च भावना भवन्ति । समुदिताः पञ्चविंशतिर्भवन्ति ।
१ सन्नि- आ०, ब०, ज० । २ सद्भाव- ता० । ३ -ते स्वामिना देश- आ०, ब०, ज० । ४ कर्मभोगदुःख- मा०, ब०, ज० | ५ भावक- ता० ।
For Private And Personal Use Only