________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तमोऽध्यायः
अथ षष्टाध्याये आस्रवपदार्थो यो व्याकृतः तस्याध्यायस्य प्रारम्भसमये यत्सूत्रमुक्तम्"शुभः पुण्यस्याशुभः पापस्य" [ ६३] इति सूत्रे शुभो योगः पुण्यस्यास्रवो भवति अशुभो योगः पापस्यास्रवो भवति, तदेतत् शुभाशुभयोगद्वयं सामान्यतयोक्तम् । तत्र शुभयोगस्य विशेषपरिज्ञानार्थं कः शुभो योग इति प्रश्ने सूत्रमिदमाहुः--
___ हिंसानृतस्तेयाब्रह्मपरिग्रहेभ्यो विरतिव्रतम् ॥ १॥ ५
हिंसनं हिंसा प्रमत्तयोगात्प्राणव्यपरोपणमित्यर्थः। न ऋतं न सत्यम् अनृतम् असदभिधानमित्यर्थः। स्तेन्यते स्तेयम् , "ऋवर्णव्यञ्जनान्ताद्ध्यण" [ का० सू० ४।२।३५] इति ध्यणि प्राप्ते "स्तेनाद्यन्तलोपश्च" [ ] यत्प्रत्ययः, अन्तलोपश्चेति नकारलोपः स्तेयम् अदत्तादानम् । बृहन्ति अहिंसादयो गुणा यस्मिन् सति तद् ब्रह्म ब्रह्मचर्यम् , न ब्रह्म अब्रह्म मथुनमित्यर्थः। परि समन्ताद् गृह्यते परिग्रहः मनोमूर्छालक्षणः ग्रहणेच्छालक्षणः परिग्रह १० उच्यते । हिंसा चानृतञ्च रतेयश्च अब्रह्म च परिग्रहश्च हिसानृतस्तेयाब्रह्मपरिग्रहास्तेभ्यः हिंसानृतस्तेयाब्रह्मपरिग्रहेभ्यः । विरमणं विरतिः हिंसादिपञ्चपातकेभ्यो या विरतिः विमणम् अभिसन्धिकृतो नियमः व्रत उच्यते । अथवा, इदं मया कार्यमिदं मया न कार्यमिति बनं कथ्यते । ननु "ध्रवमपायेऽपादानम्" [पा० सू० १।४।२] इति वचनाद् अपाये सति यद् ध्रुवं तदपादानं भवति, हिंसानृतस्तेयाब्रह्मपरिग्रहपरिणामास्तु अध्रुवाः १५ वर्तन्ते कथं तत्र पञ्चमीविभक्तिर्घटते ? सत्यमेवैतत् ; परन्तु हिंसदिभ्यो बुद्धरपाये सति विरमणलक्षणे विश्लेषे सति हिंसादीनामाचार्येण ध्रुवत्वं विवक्ष्यते "वक्तुर्विवक्षितपूर्विका शब्दार्थप्रतिपत्तिः": [ ] इति परिभाषणादत्र पञ्चमी घटते । यथा--'कश्चित् पुमान् धर्माद्विरमति' इत्यत्रायं पुमान् सम्भिन्नबुद्धिविपरीतमतिः सन् मनसा धर्म पश्यति पश्चाद्विचारयति-'अयं धर्मो दुष्करो वर्तते अस्य धर्मस्य च फलं श्रद्धामात्रगम्यं वर्तते' एवं २० पर्यालोच्य स पुमान् बुद्धथा धर्म संप्राप्य तस्मादध्रुवरूपादपि धर्मानिवर्तते, पश्चलते तत्र यथा पञ्चमी तथाऽत्रापि एष मानवः प्रेक्षापूर्वकारी विचारपूर्वकारीक्षते-एते हिंसादयः परिणामाः पापोपार्जनहेतुभूता वर्तन्ते, ये तु पापकर्मणि प्रवर्तन्ते ते नृपैरिहैव दण्ड्यन्ते परत्र च दुःखिनो भवन्ति इति स बुद्धया हिंसादीन् सम्प्राप्य तेभ्यो निवर्तते, ततस्तस्मात् कारणाद् बुद्धया ध्रुवत्वविवक्षायां हिंसादीनामपादानत्वं घटते। तेनायमर्थः-हिंसाया २५ विरतिः अनृताद्विरतिः स्तेयाद् विरतिः अब्रह्मणो विरतिः परिग्रहाद्विरतिश्चेति विरतिशब्दः प्रत्येकं प्रयुज्यते । तस्मिन् सति अहिंसावतमादौ ध्रियते सत्यादीनां मुख्यत्वात् , सत्यादीनि
For Private And Personal Use Only