________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३०
तत्त्वार्थवृत्तौ
[६।२६-२७ परोत्प्रहसनम् , परप्रतिवादनम् , गुरूणां 'विभेदकरणम् , गुरूणामस्थानदानम् , गुरूणामवमाननम् , गुरूणां निर्भर्त्सनम् , गुरूण मजल्प्ययोटनम् , गुरूणां स्तुतेरकरणम् , गुरूणामनभ्युत्थानश्चेत्यादीनि नीचैर्गोत्रस्यास्रवा भवन्ति ।
अथोच्चैर्गोत्रास्रवा उच्यन्ते५ तद्विपर्ययो नीचैर्वृत्त्यनुत्सेको चोत्तरस्य ॥२६॥
तस्य पूर्वोक्तार्थस्य विपर्ययो विपर्यासः आत्मनिन्दापरप्रशंसारूपः सद्गुणोद्भावनाऽ सद्गुणोच्छादनरूपश्च तद्विपर्ययः । गुणोत्कृष्टेषु विनयेन प्रह्वीभावः नीत्तिरुच्यते । ज्ञानतपःप्रभृतिगुणैर्यदुत्कृष्टोऽपि सन् ज्ञानतपःप्रभृतिभिर्मदमहङ्कारं यन्न करोति सोऽनुत्सेक
इत्युच्यते । नीवृत्तिश्चअनुत्सेकश्च नीचर्वृत्त्यनुत्सेको । एतानि षटकार्याणि उत्तरस्य नीचे!बाद१० परस्य उच्चैर्गोत्रस्यास्रवा भवन्ति। चकारात् पूर्वसूत्रोक्तचकारगृहीतविपर्ययश्चात्र गृह्यते । तथाहि
"ज्ञानं पूजां कुलं जाति बलमृद्धिं तपो वपुः। . अष्टावाश्रित्य मानित्वं स्मयमाहुर्गतस्मयाः ॥१॥" [रत्न क० श्लो० २५] ..
इति श्लोकोक्ताष्टमदपरिहरणम् परेषामनपमाननम् , अनुत्प्रहसनम् अपरीवादनम् , गुरूणामपरिभवनमनुट्टनं गुणख्यापनम् , अभेदविधानं स्थानार्पण सन्माननं मृदुभाषणं १५ चाटुभाषणश्चेत्यादयः उच्चैर्गोत्रस्यास्रवा भवन्ति । अथान्तरायस्यास्रव उच्यते
विघ्नकरणमन्तरायस्य ॥२७॥ विहननं विघ्नः दानलाभभोगोपभोगवीर्याणां प्रत्यूहः, विघ्नस्य करणं विघ्नकरणम् , अन्तरायस्य दातृपात्रयोरन्तरे मध्ये एत्यागच्छतीत्यन्तरायः तस्यान्तरायस्य, यद्विघ्नकरणं तत् २० अन्तरायस्यास्रवो भवति । चकाराधिकाराद् दाननिन्दाकरणम् , 'द्रव्यसयोगः, देवनैवेद्यभक्ष
णम् , परवीर्यापहरणम् , धर्मच्छेदनम् , अधर्माचरणम् , परेषां निरोधनम् , बन्धनम् , कर्णच्छेदनम् , गुह्यच्छेदनम्, नासाकर्तनम् , चक्षुरुत्पाटनञ्चेत्यादय अन्तरायस्यास्रवा भवन्ति। ये तत्प्रदोषादय आस्रवा उक्तास्ते निजनिजकर्मणः निजा निजा आस्रवाः स्थित्यनुभागबन्धकारणं भवन्ति, प्रकृतिप्रदेशबन्धयोस्तु कारणानि सर्वेऽपि आस्रवा भवन्ति अन्यत्रायुष्कबन्धादिति ॥ २७ ॥ २५ इति सूरिश्रीश्रुतसागरविरचितायां तात्पर्यसंज्ञायां तत्त्वार्थवृत्तौ षष्ठः पादः समाप्तः ।
१ विभेदनम् ताः । २ द्रव्ययोगः आ०, ब०, ज० । ३ -युष्कर्मब- आ०, ब०, ज० । ४ इत्यनवद्यगद्यविद्याविनोदनोदितप्रमोदपीयूषरसपानपावनमतिसमाजरत्नराजमतिसागरयतिराजराजितार्थनसमर्थन तर्कव्याकरण छन्दोऽलङ्कारसाहित्यादिशास्त्रनिशितमतिना यतिना श्रीमद्देवेन्द्र कीर्ति भट्टारकप्रशिष्येण शिष्येण च सकलावद्वज्जनविहितचरणसेवस्य विद्यानन्दिदेवस्य सञ्छद्दि तामथ्यामतदुर्गरेण श्रुतसागरेण सूरिणा विरचितायां श्लोकवार्तिकराजवाति कसर्वार्थसिद्धिन्यायकुमुदचन्द्रोदयप्रमेयकमलमार्तण्डप्रचण्डाष्टसहस्रीप्रमुखग्रन्थसन्दर्भनिर्भरावलोकनबुद्धिविराजितायां तत्त्वार्थटीकायां षष्ठः पादः समाप्तः। -आ०, ब० ।
For Private And Personal Use Only