________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
षष्ठोऽध्यायः
Acharya Shri Kailassagarsuri Gyanmandir
६/२५ ]
सन्मुखगमनं सम्भ्रमविधानं पादपूजनं दानसन्मानादिविधानं मनःशुद्धियुक्तोऽनुरागश्चाचार्य भक्तिरुच्यते । ११ । तथा बहुश्रुतभक्तिरपि ज्ञातव्या । १२ । तथा प्रवचने रत्नत्रयादिप्रतिपादकलक्षणे मनःशुद्धियुक्तोऽनुरागः प्रवचनभक्तिरुद्यते । १३ । सामायिके चतुर्विंशतिं - स्तवे एकतीर्थकर वन्दनायां कृतदोषनिराकरणलक्षणप्रतिक्रमणे नियतकालागामिदोषपरिहरणलक्षणे प्रत्याख्याने शरीरममत्वपरिहरणलक्षणे कार्योत्सर्गे च एवंविधे षडावश्यके यथाकाल - ५ प्रवर्तनम् आवश्यकापरिहाणिरुच्यते । १४ । ज्ञानेन दानेन जिनपूजनविधानेन तपोऽनुष्ठानेन जिनधर्म प्रकाशनं मार्ग प्रभावना भण्यते । १५ । यथा सद्यःप्रसूता वेनुः स्ववत्से स्नेहं करोति . तथा प्रवचने सधर्मणि जने स्नेहलत्वं प्रवचनवत्सलत्वमभिधीयते । १६ ।
1
अत्र समासशुद्धिः - दर्शनस्य विशुद्धिः दर्शनविशुद्धिः । विनयेन सम्पन्नता परिपूर्णता विनयसम्पन्नता । शीलानि च व्रतानि च शीलव्रतानि तेषु शीलव्रतेषु न अतिचारः अनतिचारः । १० अभीक्ष्णमविच्छिन्नं ज्ञानस्य उपयोगोऽभ्यासः अभीक्ष्णज्ञानोपयोगः, अभीक्ष्णज्ञानोपयोगश्च संवेगश्च अभीक्ष्णज्ञानोपयोगसंवेगौ । शक्तितरत्यागश्च तपश्च शक्तितस्त्यागतपसी । साधूनां साधुषु वा समाधिः साधुसमाधिः । व्यावृत्तेर्भावो वैयावृत्त्यं वैयावृत्त्यस्य करणं विधानं वैयावृत्यकरणम् । अर्हन्तश्च आचार्याश्च बहुश्रुताश्च प्रवचनश्च अर्हदाचार्य बहुश्रुतप्रवचनानि तेषां तेषु वा भक्तिः अईदाचार्य बहुश्रुतप्रवचनभक्तिः । सुमुहूर्ताद्यनपेक्षम् अवश्यं निश्चयेन कर्तव्या - १५ fo आवश्यकानि तेषामपरिहाणिः आवश्यकाऽपरिहाणिः । मार्गस्य प्रभावना मार्गप्रभावना । प्रवचने वत्सलत्वं प्रवचनवत्सलत्वम् । आवश्यकापरिहाणिश्च मार्गप्रभावना च प्रवचनवत्सल - आवश्यक परिहाणिमार्ग प्रभावनाप्रवचनवत्सलत्वं समाहारो द्वन्द्वः । इति षोडश प्रत्ययाः । एतानि षोडश कारणानि तीर्थकरत्वस्य तीथङ्करनामकर्मण आस्रवकारणानि भवन्ति ।
अथ उच्चनीचगोत्रद्वयस्यास्रवसूचनपरं सूत्रद्वयं मनसि धृत्वा तत्र तावन्नीचैर्गोत्रस्य २० आस्रवकारणं निरूपयन्तः सूत्रमिदमाहुः - परात्मनिन्दाप्रशंसे सदसद्गुणोच्छादनोद्भावने च नीचैर्गोत्रस्य ||२५||
परश्च आत्मा च परात्मानौ निन्दा च प्रशंसा च निन्दाप्रशंसे, परात्मनोः निन्दाप्रशंसे परात्मनिन्दाप्रशंसे- - परस्य निन्दा आत्मनः प्रशंसा इत्यर्थः । सन्तो विद्यमानाः असन्तोऽविद्यमानाः सदसन्तः ते च ते च गुणाः ज्ञानतपःप्रभृतयः सदसद्गुणाः, उच्छादन २५ लोपनम् उद्भावनञ्च प्रकाशनम्, उच्छादनोद्भावने, सदसद्गुणानामुच्छादनोद्भावने सदसद्गुणोच्छादनोद्भावने सद्गुणोच्छादनमसद्गुणोद्भावनमित्यर्थः । एतानि चत्वारि कर्माणि नीचेगौत्रस्य मलिनगोत्रस्य आस्त्रवकारणानि कर्मागमनहेतवो भवन्ति । चकाराज्जातिमदः कुलमदः बलमदः रूपमदः श्रुतमदः आज्ञामदः ऐश्वर्यमदः तपोमदश्चेत्यष्ट मदाः परेषामपमाननम्,
For Private And Personal Use Only
२२९
१ - त्रयलक्षणे ता० । २ - तिसंस्तवने ती आ०, ब०, ज० । ३ त्वमानसे विधी- आ०, ब० ज० । ४ विनये स- आ०, ब० ज० ।