SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२८ तत्त्वार्थवृत्ती [६।२४ कर्मास्रवकारणं भवति। तदुक्तम्___ "एकाऽपि समर्थेयं जिनभक्तिर्दुर्गतिं निवारयितुम् । पुण्यानि च पूरयितुं दातुं मुक्तिश्रिये कृतिनः ॥ १॥" [ यश० उ० पृ० २८९] इति कारणादर्शनविशुद्धरद्वितीयसूचनार्थं पृथनिर्देशः कृतः, यतस्तत्पूर्वा अन्याः पञ्चदश ५ भावना व्यस्ताः समस्ता वा तीर्थकरत्वनामकारणं भवन्ति 'तेन रहिता तु एकाऽपि भावना कारणं न भवति । तदुक्तम् "विद्यावृत्तस्य सम्भूतिस्थितिवृद्धिफलोदयाः। न सन्त्यसति सम्यक्त्वे बीजाभावे तरोरिव ॥१॥" [रत्नक० श्लो० ३२] अथ काऽसौ दर्शनस्य विशुद्धिरिति चेत् ? उच्यते-इहलोकभयं परलोकभयं पुरुषाद्य१० रक्षणमत्राणभयम् आत्मरक्षोपायदुर्गाद्यभावादगुप्तिभयं वेदनाभयं विद्युत्पाताचौकस्मिकभयमिति सप्तभयरहितत्वं जैनदर्शनं सत्यमिति निःशङ्कितत्वमुच्यते । इहपरलोकभोगोपभोगका क्षारहितत्वं निःकाङ्कितत्वम्। शरीरादिकं पवित्रमिति मिथ्यासङ्कल्पनिरासो निर्विचिकित्सता। अनाहतदृष्टतत्त्वेषु मोहरहितत्वममूढदृष्टिता। उत्तमक्षमादिभिरात्मनो धर्मवृद्धिकरणं चतुर्विध सङ्घदोषझम्पनं चोपगृहनम् , उपबृहणमित्यपरनामधेयम्। क्रोधमानमायालोभादिषु धर्म१५ विध्वंसकारणेषु विद्यमानेष्वपि धर्मादप्रच्यवनं स्थितिकरणम्। जिनशासने सदानुरागित्वं वात्सल्यम् । सम्यग्दर्शनज्ञानचारित्रतपोभिरात्मप्रकाशनं जिनशासनोद्योतकरणं वा प्रभावना। तथा मूढत्रयरहितत्वं षडायतनवर्धनम् अष्टमदरहितत्वम् अजिनजलस्याऽनास्वादनं मूलकपद्मिनीकन्दपलाण्डुतुम्बककलिङ्गसूरणकन्दसर्वपुष्पसन्धानकभक्षणनिराकरणश्चेत्यादिकं दर्शनविशुद्धिरुच्यते ।। रत्नत्रयमण्डिते रत्नत्रये च महानादरः अकषायत्वञ्च विनयसम्पन्नता कथ्यते । २ । अहिंसादिषु व्रतेषु तत्प्रतिपालनार्थश्च क्रोधादिवर्जनलह्मणेषु शीलेषु अनवद्या वृत्तिः शीलव्रतेध्वनतिचारः । ३ । जीवादिपदार्थनिरूपकात्मतत्त्वकथकसम्यग्ज्ञानानवरतोद्यमः अभीक्ष्णज्ञानोपयोग उच्यते । ४ । भवदुःखादनिशं भीरुता संरेगः कथ्यते । ५। आहाराभयज्ञानानां त्रयाणां विधिपूर्वकमात्मशक्त्यनुसारेण पात्राय दानं शक्तितस्त्याग उच्यते । ६। निजशक्ति२५ प्रकाशनपूर्वकं जैनमार्गाविरोधी कायक्लेशः शक्तितस्तप उच्यते । ७। यथा भाण्डागारेऽग्नौ समुत्थिते येन केनचिदुपायेन तदुपशमनं विधीयते बहूनामुपकारकत्वात् तथाऽनेकव्रतशीलसमन्वितस्य यतिजनस्य कुतश्चिद्विघ्ने समुत्पन्ने सति विघ्ननिवारणं समाधिः, साधूनां समाधिः साधुसमाधिः । ८ । अनवद्येन विधिना गुणवतां दुःखापनयनं वैयावृत्त्यमुच्यते । ९ । अर्हता स्नपनपूजनगुणस्तवननामजपनादिकमहद्भक्तिर्निगद्यते । १०। आचार्याणामपूर्वोपकरणदानं १ तद्रहिता ए- ता० । २ आद्यर- आ०, ब०, ज० । ३ -द्याश्चाक- भा०, ब०, ज.। ४ -दच्यव- भा०, ब०, ज०। ५ जिनचरणे स-भा०, ब०, ज०। ६ -षु च शी- ता० । For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy