________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६१२३-२४ ]
षष्ठोऽध्यायः
चकारात् मिथ्यादर्शनम्, पिशुनतायां स्थिरचित्तत्वम्, कूटमानतुलाकरणम्, कूटसाक्षित्वभरणम्, परनिन्दनम्, आत्मप्रशंसनम्, परद्रव्यग्रहणम्, असत्यभाषणम्, महारम्भमहापरिग्रहत्वम्, सदोज्ज्वलवेषत्वम्, सुरूपतामदः, परुषभाषणम्, 'असदस्यप्रलपनम्, आक्रोशविधानम्, उपयोगेन सौभाग्योत्पादनम्, चूर्णादिप्रयोगेन परवशीकरणम्, मन्त्रादिप्रयोगेण परकुतूहलोत्पादनम्, देवगुर्वादिपूजामिषेण गन्धधूपपुष्पाद्यानयनम्, परविडम्बनम्, उपहास्यकरणम्, इष्टकोञ्चयपाचनम्, दावानलप्रदानम्, प्रतिमाभञ्जनम्, चैत्यायतनविध्वंसनम्, आरामखण्डनादिकम्, तीव्रक्रोधमानमायालो भत्वम्, पापकर्मोपजीवित्वश्चेत्यादयो ऽशुभनामास्रवा भवन्ति ।
अथ शुभनामकर्मावस्वरूपं निरूप्यते-
२२७
For Private And Personal Use Only
५.
तद्विपरीतं शुभस्य ॥ २३ ॥
तस्याः कायवाङ्मनोवक्रताया विपरीतत्वम् ऋजुत्वम् । तद्विपरीतं यत्कर्म तत्तद्विपरीतं तस्मात्पूर्वोक्तलक्षणाद्विसंवादनाद्विपरीतं तद्विपरीतं शुभस्य नाम्न आस्रवकारणं वेदितव्यम् । यच्च पूर्वसूत्रे चकारेण गृहीतं तस्मादपि विपरीतं तद्विपरीतम् । तथाहि — धार्मिकदर्शनसम्भ्रमसद्भावोपनयनम् । तत्किम् ? धार्मिकस्य यतिनाथादेः सम्भ्रमेण आदरसद्भावेन न तु मायया उपनयनं समीपे गमनम् । तथा संसारभीरुत्वम् प्रमादवर्जनम्, पिशुनतायामस्थिरचित्त- १५ त्वम्, अकूटसाक्षित्वम्, परप्रशंसनम्, आत्मनिन्दनम्, सत्यवचनभाषणम्, परद्रव्यापरिहरणम्, अल्पारम्भपरिग्रहत्वम्, अपरिग्रहत्वञ्च, अन्तरेऽन्तरे उज्ज्वलवेशत्वम्, रूपमदपरिहरणम्, मृदुभाषणम्, सदस्यजल्पनम्, शुभवचनभाषणम्, सहज सौभाग्यम्, स्वभावेन वशीकरणम्, परेषामकुतूहलोत्पादनम्, अमिषेण पुष्पधूपगन्धपुष्पाद्यानयनम्, परेषामविडम्बनम्, परवर्कराकरणम्, इष्टिकापाकदावानलप्रदानत्रतम्, प्रतिमानिर्मापणम्, २० तत्प्रासादकरणम्, आरामाखण्डनादिकम्, मन्दक्रोधमानमायालोभत्वम्, अपापकर्मजीवि - त्वत्यादयः शुभनामकर्मास्रवा भवन्ति ।
१०
अथ यदनन्तनिरुपमप्रभावम् अचिन्त्यनीयैश्वर्यविशेषकारणं त्रिभुवनैकविजयकरं तीर्थङ्कर नामकर्म वर्तते तस्यास्रवविधिप्रकारं सूचयन्ति सूरयः -
दर्शन विशुद्धिविनयसम्पन्नता शीलवतेष्वनतिचारोऽभीक्ष्णज्ञानोपयोग- २५ संवेगौ शक्तितस्त्यागतपसी साधुसमाधिर्वैयावृत्यकरणमर्हदाचार्यहुतप्रवचनभक्तिरावश्यका परिहाणिमार्गप्रभावना
प्रवचनवत्सलत्वमिति तीर्थकरत्वस्य ||२४||
दर्शन विशुद्धिः दर्शनस्य सम्यक्त्वस्य विशुद्धिनिर्मलता दर्शनविशुद्धिः । पृथनिर्देशः किमर्थम् ? सम्यक्त्वं किल जिनभक्तिरूपं तत्त्वार्थश्रद्धानरूपं वा केवलमपि तीर्थंकरत्वनाम - ३०
१ असभ्यभाषणम् । २ वरू- आ०, ब०, ज० । ३ करणं ती- भा०, ब०, ज० ।