________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२६ तत्त्वार्थवृत्तौ
[६२१-२२ कोऽर्थः ? चारकेण बन्धविशेषेण 'निरोधबन्धनबद्धो गाढबन्धनबद्धः चारकनिरोधबन्धनबद्धः, तादृशः पुमान् पराधीनपराक्रमः सन् बुभुक्षानिरोधं तृष्णादुःखं ब्रह्मचर्यकृच्छ्र भूशयनकष्टं मलधारणं परितापादिकञ्च सहमानः सहनेच्छारहितः सन् यदीषत् कर्म निर्जरयति सा
अकामनिर्जरा इत्युच्यते। बालानां मिथ्यादृष्टितापससान्न्यासिकपाशुपतपरित्राजकैकदण्ड५ त्रिदण्डपरमहंसादीनां तपःकायक्लेशादिलक्षणं निकृतिबहुलव्रतधारणञ्च बालतप उच्यते ।
सरागसंयमश्च संयमासंयमश्च अकामनिर्जरा च बालतपश्च सरागसंयमसंयमासंयमाकामनिर्जराबालतपांसि । देवेषु चतुर्णिकायेषु भवं यदायुस्तदेवं तस्य देवस्य । एतानि चत्वारि कर्माणि देवायुरानवकारणानि भवन्ति ।
अथ 'किमेतान्येव देवायुरास्रवाः भवन्ति, उताहोऽन्यदपि किमपि देवायुरास्रवनिमित्तं ' १० वर्तते न वा' इति प्रश्ने सूत्रमिदमाहुः
सम्यक्त्वञ्च ॥ २१ ॥ सम्यक्त्वं तत्त्वश्रद्धानलक्षणं देवायुरास्रवकारणं भवति । किं भवनवास्यादिष्वपि देवेषु सम्यक्त्ववान् उत्पद्यते ? नैवम् । यद्यपि सम्यक्त्वमिति देवायुरानवकारणमिति
अविशेषेणोक्तं तथापि सम्यक्त्ववान् पुमान् सौधर्मादिविशेषस्वर्गदेवेषु उत्पद्यते न तु १५ भावनादिषु अन्यत्र पूर्वबद्धायुष्कात् । २एतदपि कस्मात् ? पृथगयोग्यात् , अन्यथा 'सम्यक्त्व
सरागसंयमसंयमासंयमाकामनिर्जराबालतपांसि देवस्य' इति सूत्रं कुर्यात् । यदा तु सम्यक्त्वहीनः पुमान् भवति तदा सरागसंयमादिमण्डितोऽपि भवनवासित्रयं सौधर्मादिकश्च यथागमम् उभयमपि प्राप्नोति।
अथ नामकर्मास्रवसूचनार्थं सूत्रत्रयं मनसि धृत्वा तदादौ अशुभनामकर्मास्रवसूचनार्थ २० सूत्रमिदमाहुँः
योगवक्रता विसंवादनञ्चाशुभस्य नाम्नः ॥ २२ ॥ कायवाङ्मनःकर्म योगः त्रिविधः, योगस्य वक्रता कौटिल्यं योगवक्रता कायेनान्यत् करोति वचसाऽन्यद् ब्रवीति मनसाऽन्यच्चिन्तयति एवंविधा योगवक्रता। अन्यथास्थितेषु
पदार्थेषु परेषामन्यथाकथनं विसंवादनमुच्यते । ननु योगवक्रताविसंवादनयोरर्थभेदः कोऽपि २५ न वर्तते, तेन योगवक्रता एव वक्तव्या किं विसंवादनग्रहणेन ? इत्याह-साधूक्तं भवता ;
योगवक्रता आत्मगता वर्तत एव । तस्यां सत्यां परगतं विसंवादनम् तत्किमिति चेत् ? कश्चित्पुमान् अभ्युदयनिःश्रेयसार्थासु क्रियासु सम्यक् स्वयं वर्तते तं तत्र वर्तमानमन्यं पुमांसम् अन्यः कोऽपि विपरीतकायवाङ्मनोभिः प्रयोजयति विसंवादयति मिथ्याप्रेरयति–'देवदत्त, त्वमेवं मा कार्षीः, इदं कार्य त्वमेवं कुरु' इत्येवं परप्रेरणं विसंवादनमुच्यते । तेन योगवक्रताया ३० विसंवादनस्य च महान् भेदो वर्तते। एतदुभयमपि अशुभनामकर्मण आस्रवकारणं भवति ।
१ विरो-आ०, ब०, ज० । २ तदपि आ०, २०, ज० । ३ -हुराचार्याः आ०, ब०, ज० । ४ तस्यां तस्यां ता०।
For Private And Personal Use Only