________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६।१७-२०] षष्ठोऽध्यायः
२२५ तनुकषायत्वम् अन्तकालेऽसंक्लेशत्वं मिथ्यादर्शनसहितस्य विनीतत्वं सुखसंबोध्यत्वं धूलिरेखासमानरोषत्वं जन्तूपघातनिवृत्तिः प्रदोषरहितत्वं विकर्मवर्जितत्वं प्रकृत्यैव सर्वेषामागतस्वागतकरणं मधुरवचनता उदासीनत्वमनसूयत्वम् अल्पसङ्क्लेशः गुर्वादिपूजनं कापोतपीतलेश्यत्वञ्चेत्यादयो मानुषायुरानवा भवन्ति ।। अथापरमपि मानुषायुरास्रवकारणमाह
. स्वभावमाईवश्च ॥ १८ ॥ मृदो वो मार्दवं मानाभावः । स्वभावेन प्रकृत्या गुरूपदेशं विनाऽपि मार्दवं मृदुत्वं स्वभावमार्दवं मानुषायुरास्रवो भवति । चकारः परस्परसमुच्चये । तेनायमर्थः-न केवलम् अल्पारम्भपरिग्रहत्वं मानुषस्यायुष आस्रवो भवति किञ्च स्वभावमार्दवत्वञ्च मानुषस्यायुष आस्रवो भवति । यद्येवं तर्हि 'अल्पारम्भपरिग्रहत्वं स्वभावमाईवञ्च मानुषस्यायुषः' इत्येवमेकं १० सूत्रं किमिति न कृतम् ? सत्यमेवैतत् ; किन्तु पृथग्योगविधानम् उत्तरायुरास्रवसम्बन्धार्थम् । तेनायमर्थः- स्वभावमार्दवं सरागसंयमादिकञ्च देवायुरास्रवो भवतीति वेदितव्यम् ।
अल्पारम्भपरिग्रहत्वं स्वभावमार्दवञ्च एतद्वयमेव किं मानुषस्यायुष आस्रवः ? नैवम् ; अपरमपि मानुषस्यायुष आस्रवो वर्तते । तत् किमिति प्रश्ने सूत्रमिदं ब्रुवन्ति' भगवन्तः
निःशीलव्रतत्वश्च सर्वेषाम् ॥ १९ ॥ शीलानि च गुणवतत्रयं शिक्षाप्रतचतुष्टयं च शीलानीत्युच्यन्ते व्रतानि अहिंसादीनि पञ्च शीलव्रतानि, शीलवतेभ्यो निष्क्रान्तो निर्गतः निःशीलवतः शीलव्रतरहितः निःशीलव्रतस्य भावः निःशीलव्रतत्वम् । चकारादल्पारम्भपरिग्रहत्वञ्च सर्वेषां नारकतिर्यमनुष्यदेवानाम् आयुष आस्रवो भवति । ननु ये शीलवतरहितास्तेषां देवायुरास्रवः कथं सङ्गच्छते ? २० युक्तमुक्तं भवता; भोगभूमिजाः शीलव्रतरहिता अपि ईशानस्वर्गपर्यन्तं गच्छन्ति तदपेक्षया सर्वेषामिति ग्रहणम् । केचिदल्पारम्भपरिग्रहा अपि अन्यदुराचारसहिता 3नरकादिक प्राप्नुवन्ति तदर्थश्च सर्वेषामिति गृहीतम् ।
अथ देवायुरास्रवकारणं प्राहुःसरागसंयमसंयमासंयमाकामनिर्जरावालतपांसि देवस्य ॥२०॥ २५
संसारकारणनिषेधं प्रत्युद्यतः अक्षीणाशयश्च सराग इत्युच्यते, प्राणीन्द्रियेषु अशुभप्रवृत्तेविरमणं संयमः, पूर्वोक्तस्य सरागस्य संयमः सरागसंयमः महाव्रतमित्यर्थः। अथवा सरागः संयमो यस्य स सरागसंयम इति बहुव्रीहिरपि । संयमश्चासावसंयमः संयमासंयमः श्रावकब्रतमित्यर्थः। अंकामेन निर्जरा अकामनिर्जरा, यः पुमान चारकनिरोधबन्धनबद्धः ।
१ -न्ति नि- ता० । २ शीलव- आ०, ब०, ज० । ३ नारकादि प्रा-आ०, ब०, ज०। ४ अकामे नि- भा०, ब०, ज.।
२९
For Private And Personal Use Only