SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२४ तत्त्वार्थवृत्तो [६+१५:१७ अथायुष्कर्म चतुर्विधं वर्तते नारकतिर्यमनुष्यदेवायुर्भेदात् । तत्र तावन्नारकायुःकारणप्रकाशनार्थं सूत्रमिदं ब्रुवन्ति बहारम्भपरिग्रहत्वं नारकस्यायुषः॥१५॥ आरभ्यते इत्यारम्भः प्राणिपीडाहेतुर्व्यापारः, परिगृह्यत इति परिग्रहः 'ममेदम्' इति ५ बुद्धिलक्षणः, आरम्भाश्च परिग्रहाश्च आरम्भपरिग्रहाः, बहवः प्रचुरा आरम्भपरिग्रहाः यस्य स बह्वारम्भपरिग्रहः, बह्वारम्भपरिग्रहस्य भावः बह्वारम्भपरिग्रहत्वम् । नरके भवमुत्पन्नं यत् तन्नारकं तस्य नारकस्य । बह्वारम्भपरिग्रहत्वम् नारकस्य नरकसम्बन्धिनः आयुषः आयु:कर्मणः आस्रवो भवति । विस्तरेण तु मिथ्यादर्शनं तीव्ररागः अनृतवचनं परद्रव्यहरणं निः शीलता निश्चलवरं परोपकारमतिरहितत्वं यतिभेदः समयभेदः कृष्णलेश्यत्वं विषयातिवृद्धिः १० रौद्रध्यानं हिंसादि क्रूरकर्मनिरन्तरप्रवर्तनं बालवृद्धस्त्रीहिंसनं चेत्यादय अशुभतीत्रपरिणामा नारकायुरास्रवा भवन्ति । अथ तिर्यग्योन्यायुरास्रव उच्यते माया तैर्यग्योनस्य ॥ १६ ॥ मिनोति प्रक्षिपति चतुर्गतिगर्त्तमध्ये प्राणिनं या सा माया, चारित्रमोहकर्मोदया१५ विर्भूतात्मकुटिलतालक्षणा निकृतिरित्यर्थः। तिरश्चां योनिः तिर्यग्योनिः, तिर्यग्योनौ भवं यदायुस्ततर्यग्योनं तस्य तैर्यग्योनस्य । माया योगवक्रतास्वभावः तैर्यग्योनस्यायुषः तिर्यक्योनिसम्बन्धिन आयुष्कर्मण आस्रवो भवति। विस्तरेण तु मिथ्यात्वसंयुक्तधर्मोपदेशकत्वम् अस्तोकारम्भपरिग्रहत्वं निःशीलत्वं वञ्चनप्रियत्वं नीललेश्यत्वं कापोतलेल्यत्वं मरणकालाद्यात". ध्यानत्वं कूटकर्मत्वं भूभेदसमानरोषत्वं भेदकरणत्वम् अनर्थोद्भावनं कनकवर्णिकान्यथाकथनं २० कृत्रिमचन्दादिकरणं जातिकुलशीलसन्दूषणं सद्गुणलोपनमसद्गुणोद्भावनं चेत्यादयः तिर्यगायुरास्रवा भवन्तिः। अथ मानुषायुरास्रव उच्यते अल्पारम्भपरिग्रहत्वं मानुषस्य ॥ १७ ।। आरम्भाश्च परिग्रहाश्च आरम्भपरिग्रहाः, 'अल्पे आरम्भपरिग्रहा यस्य स अल्पा२५ रम्भपरिग्रहः, अल्पारम्भपरिग्रहस्य भावः अल्पारम्भपरिग्रहत्वं नारकायुःकारणविपरीतत्वमित्यर्थः। मानुषस्येदं मानुषं तस्य मानुषस्य । अल्पारम्भपरिग्रहत्वं मानुषस्यायुषः आयु:कर्मण आस्रवो भवति । विस्तरेण तु विनीतप्रकृतित्वं स्वभावभद्रत्वम् अकुटिलव्यवहारत्वं १ आरम्भाः प- आ०, ब०, ज० । २ यदायु त-आ०, ब०,.ज० । ३ -ताश्च निश्चलतावेआ०, ब०, ज०। ४-खरक- आ०, ब०, ज० । ५ -कालार्तध्या-आ०, ब०, द० । ६ -नानि कमा०, ब०, ज०। ७ -सवा उच्यन्ते भा०,व०, ज० । ८-अल्पा आ- आ०, ब०, ज० । For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy