________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६।१४ ] षष्ठोऽध्यायः
२२३ ये पुरुषा वर्तन्ते ते सर्वेऽपि असुरा भविष्यन्ति इत्यादिकं गुणवति महति केवलिप्रणीते धर्मेऽसद्भूतदोषोद्भवनम् अविद्यमानदोषकथनं धर्मस्यावर्णवादः। देवाः किल मांसोपसेवाप्रियाः तदर्थं तद्वचनविधातार उर्वन्तरिक्षं लभन्ते इत्यादिको देवावर्णवादः। एतत्सर्वमदोषदोषोद्भवनं सम्यक्त्वमोहानवकारणं वेदितव्यम् ।
अथ चरित्रमोहास्रवप्रकारप्रतिपादनार्थं समर्थ्यते सूत्रमेतत्-~
कषायोदयातीव्रपरिणामश्चारित्रमोहस्य ॥ १४ ॥ कषन्ति हिंसन्ति सम्यक्त्वादीनिति कषायाः कषायाणामुदयः कषायफलजननरूपः कषायोदयस्तस्मात्कषायोदयात् तीव्रपरिणामः अत्युत्कटमनस्कारः चारित्रमोहस्य चारित्रावरणकर्मण आस्रवो भवति । ते कषाया द्विप्रकाराः कषायाः अकषायाश्च । तत्र कषायवेदनीयस्य आस्रवः परेषामात्मनश्च कषायोत्पादनं व्रतशीलसंयुक्तयतिजनचारित्रदूषणप्रदानं १० धर्मध्वंसनं धर्मान्तरायकरणं देशसंयतगुणशीलसन्त्याजनं मात्सर्यादिना विरक्तचित्तानां विभ्रमोत्पादनम् आर्त्तरौद्रजनकलिङ्गव्रतादिधारणं कषायवेदनीयस्यास्रवा भवन्ति। अकपायवेदनीयं नवप्रकारम्-हास्यरत्यरतिशोकभयजुगुप्सास्त्रीपुंनपुंसकवेदभेदात् । तत्र सद्धर्मजनोपहसनं दीनजनानामतिहसनं कन्दर्पहसनं बहुप्रलपनम् उपहसनशीलतादिक हास्यवेदनीयस्यास्रवा भवन्ति । नानाप्रकारक्रीडनतत्परत्वं विचित्रक्रीड नभावो देशाद्य- १५ नौत्सुक्यप्रीतिजननादिकं व्रतशीलादिष्वरुचिरित्येवमादिकं रतिवेदनीयस्यास्रवा भवन्ति । परेषामरतेराविर्भवनं परेषां रतेविनाशनं पापशीलजनानां संसर्गादिकं पापक्रियाप्रोत्साहनं चेत्यादयः अरतिवेदनीयस्य आस्रवा भवन्ति । आत्मनः शोकोत्पादनं परेषां शोककरणं शोकप्लुतानां जनानामभिनन्दनञ्चत्वादयः शोकवेदनीयस्यास्रवा भवन्ति । स्वयं भये परिणमनं परेषां भयोत्पादनं निर्दयत्वं त्रासनादिकं चेत्यादयो भयवेदनीयस्यास्रवा २० भवन्ति । पुण्यक्रियाचारजुगुप्सनं परपरिवादशीलत्वं चेत्यादयः जुगु:सावेदनीयस्यास्रवा भवन्ति । पराङ्गनागमनं स्वरूपधारित्वम् असत्याभिधानं परवञ्चनपरत्वं परच्छिद्रप्रेक्षित्वं वृद्धरागत्वं चेत्यादयः स्त्रीवेदनीयस्यास्रवा भवन्ति । अल्पकोपनम् अजिह्मवृत्तिरगर्वत्वं लोलाङ्गनासमवायाल्परागित्वम् अनीर्षत्वं स्नाने गन्धद्रव्ये स्रजि आभरणादौ च रागवस्तुनि अनादरः स्वदारसन्तोषः परदारपरिहरणं चेत्यादयः पुंवेदंनीयस्य आस्रवा भवन्ति । २५ प्रचुरकषायत्वं गुह्येन्द्रियविनाशनं पराङ्गनापमानावस्कन्दनं स्त्रीपुरुषानङ्गव्यसनित्वं व्रतशीलादिधारिपुरुषप्रमथनं तीव्ररागश्चेत्यादयो नपुंसकवेदनीयस्यास्रवा भवन्ति ।
१ -क्रीडनं भावोद्देशा -ज० । २ परिभ्रमनं आ०, ब०, ज०। ३ परवृद्ध-आ०, ब०, ज०१४ -रागत्व भा०, ०, ज० ।
For Private And Personal Use Only