________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२२
१०.
तत्त्वाथवृत्तौ
[६१३ योगश्च क्षान्तिश्च शौचं च भूतव्रत्यनुकम्पादानसरागसंयमादियोगक्षान्तिशौचम् । समाहारो द्वन्द्वः। इति एवं प्रकार अर्हत्पूजाविधानतात्पर्यम् , बालवृद्धतपस्विनां च वैयावृत्त्यादिकं सर्वमेतत् सद्वेद्यस्य आस्रवाः सुखरूपस्य कर्मणः कारणं भवन्ति । ननु अतिनः किं भूतानि न भवन्ति यत्पृथग् गृह्यन्ते ? युक्तमुक्तं भवता ; भूतग्रहणात् सिद्धे ५ सति यद् व्रतिशब्दग्रहणं तद् अतिनामनुकम्पा प्रधानतया कर्तव्येति सूचनार्थम् ।
अथ मोहकर्मास्रवसूचनार्थ सूत्रद्वयं मनसि धृत्वा सम्यक्त्वमोहास्रवकारणसङ्कथनार्थं तत्रेदं सूत्रमुच्यते--
केवलिश्रुतसङ्घधर्मदेवावर्णवादो दर्शनमोहस्य ॥ १३ ॥ द्विपदमिदं सूत्रम्।
"क्षायिकमेकमनन्तं त्रिकालसर्वार्थयुगपदवभासम् । सकलसुखधाम सततं वन्देऽहं केवलज्ञानम् ॥"
[सं० श्रुतभ० श्लो० २९ ] इत्यार्योक्त (क्तं ) केवलं ज्ञानम् आवरणद्वयरहितं ज्ञानं विद्यते येषां ते केवलिनः । श्रूयते स्म श्रवणं वा श्रुतं सर्वज्ञवीतरागोपदिष्टम् , अतिशयवबुद्धिऋद्धिसमुपेतगणधरदेवानु१५ स्मृतग्रन्थगुम्फितं श्रुतमित्युच्यते । सम्यग्दर्शनज्ञानचारित्रपात्राणां श्रमणानां परमदिगम्बराणां
गणः समूहः सङ्घ उच्यते । अहिंसा सत्यमस्तेयं ब्रह्मचर्य निःसङ्गत्वमित्यादिलक्षणोपलक्षितः सर्वज्ञवीतरागकेवलिप्रणीतः धर्म इत्युच्यते, दुर्गतिदुःखादुद्धृत्य इन्द्रादिपूजितपदे धरतीति धर्म इति निरुक्तः "अति हुसुक्षिणीपदभायास्तुभ्यो मः।" [ का० उ० १।५३ ]
भवनवासिव्यन्तरज्योतिष्ककल्पवासिलक्षणोपलक्षिताः मनसा अमृताहाराः पूर्वोक्तलक्षणा २० देवाः। केवलिनश्च श्रुतं च सङ्घश्व धर्मश्च देवाश्च केवलिश्रुतसङ्घधर्मदेवाः, तेषां तेषु वा
अवर्णवादो निन्दावचनं केवलिश्रुतसङ्घधर्मदेवावर्णवादः । केवलिनामवर्णवादस्तावत्केवलिनः किल केवलज्ञानिनः कवलाहारजीविनः, तेषां च रोगो भवति उपसर्गश्च सञ्जायते, नग्ना भवन्त्येव परं वस्त्राभरणमण्डिता दृश्यन्ते इत्यादिकं सर्वं केवलज्ञानिनां गुणवता
महतामसद्भूतदोषोद्भवनमवर्णवादो वेदितव्यः । मांसभक्षणं मद्यपानं मातृस्वस्रादिमैथुनं २५ जलगालने महापापमित्यादिकमाचरणं किल शास्त्रोक्तं श्रुतस्यावर्णवादः। गुणवतो महतः
श्रुतस्य असद्भूतदोषोद्भवनमवर्णवादः श्रुते धूर्तजनसम्मेलित्वात् । एते दिगम्बराः खलु शूद्रा अशुचयः अस्नानाः त्रयीबहिर्भूताः कलिकालोत्पन्ना इत्यादि गुणवतां महतां दिगम्बराणाम् असद्भूतदोषोद्भवनं सङ्घस्यावर्णवादः। अहंदुपदिष्टो धर्मः खलु निर्गुणः तद्विधायका
१ भवति आ०, व०, ज० । २ जलगालनकन्दमूलभक्षणमहा-आ०, ब०,दु । ३ -जनमेलिआ०, ब०, ज० । ४-कालोद्भूताः आ०, ब०, द० ।
For Private And Personal Use Only