________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६।१२] षष्ठोऽध्यायः
२२१ विस्फोटं पाटयति तदा [5] धर्मकर्मोपार्जनाद् भिषजो दुःखं भवति, यदा तु कारुण्यं कृत्वा तद्वयाधिविनाशार्थं मुनेः सुखजननार्थं विस्फोटं पाटयति तदा क्रोधाद्यभावाद्धर्मकर्मोपार्जनाद् वैद्यस्य सुखमेव भवति । दृष्टान्तश्लोको गतः । इदानी दान्तिश्लोको व्याख्यायते-एवं मोहक्षयसाधनहेतुरुपवासलोचादिकः स स्वयमेव सुखदुःखरूपो न भवति किन्तु य उपवासादिकं करोति कारयति वा शिष्यं गुर्वादिकः तस्य दुःखं सुखं वा भवति, यदि गुरुः क्रोधादिना उपवासादिकं ५ करोति कारयति वा तदा [s] धर्मकर्मोपार्जनात् दुःखमेव प्राप्नोति, यदा तु कारुण्येन संसारदुःखविनाशार्थमुपवासादिकं कारयति करोति वा तदा धर्मकर्मोपार्जनात् सुखमेव प्राप्नोति । यथा दुःखादयः असद्वेद्यास्रवकारणानि षट् प्रोक्ताः२, तथा अन्यान्यपि भवन्ति । तथाहिअशुभः प्रयोगः, परनिन्दनम् , पिशुनता, अननुकम्पनम् , अङ्गोपाङ्गच्छेदनभेदनादिकम् , ताडनम् , त्रासनम् , तर्जनम्, भर्सनम् , तर्जनम् अङ्गुल्यादिसञ्जया, भर्त्सनं वचना- १० दिना, मारणम् , रोधनम् , बन्धनम् , मर्दनम् , दमनम् , परनिन्दनम् , आत्मप्रशंसनम् , संक्लेशोत्पादनम् , महारम्भः, महापरिग्रहः, मनोवाक्कायवक्रशीलता, पापकर्मोपजीवित्वम् , अनर्थदण्डः, विषमिश्रणम् , शरजालपाशवागुरापञ्जरमारणयन्त्रोपायसर्जनादिकम् , एते पापमिश्राः पदार्था आत्मनः परस्य उभयस्य वा क्रोधादिना क्रियमाणा असद्वेद्यास्रवा भवन्ति ।
अथेदानीं सद्वेद्यास्रवस्वरूपं निरूपयन्नाहभूतव्रत्यनुकम्पादानसरागसंयमादियोगक्षान्तिशौचमिति
सवेद्यस्य ॥ १२॥ नारकतिर्यङ्मनुष्यदेवपर्यायलक्षणासु चतसृषु गतिषु निजनिजकर्मोदयवशाद् भवन्तीति भूतानि प्राणिवर्गाः । अहिंसासत्यास्तेयब्रह्मचर्याऽपरिग्रहदिवाभुक्तलक्षणानि व्रतानि एकदेशेन सर्वथा च विद्यन्ते येषां ते व्रतिनः श्रावका यतयश्च । परोपकारोंद्रचित्तस्य २० परपीडामात्मपीडामिव मन्यमानस्य पुरुषस्य अनुकम्पनम् अनुकम्पा कारुण्यपरिणामः । भूतानि च तिनश्च भूतव्रतिनस्तेषु तेषां वा अनुकम्पा भूतव्रत्यनुकम्पा । परोपकारार्थ निजद्रव्यत्ययो दानम्। संसारहेतुनिषेधं प्रति उद्यमपरः अक्षीणाशयश्च सरागो भण्यते। षट्जीवनिकायेषु पडिन्द्रियेषु च पापप्रवृत्तेनिवृत्तिः संयम उच्यते । सरागस्य पुरुषस्य संयमः सरागसंयमः, सरागः संयमो वा यस्य स सरागसंयमः। सरागसंयम आदिर्येषां २५ संयमासंयमाऽकामनिर्जराबालतपःप्रभृतीनां ते सरागसंयमादयः । भूतत्रत्यनुकम्पा च दानं च सरागसंयमादयश्च भूतव्रत्यनुकम्पादानसरागसंयमादयः तेषां योगः सम्यक् प्रणिधानं सम्यक् चिन्तनादिकं भूतव्रत्यनुकम्पादानसरागसंयमादियोगः । क्रोधमानमायानां निवृत्तिः शान्तिः। लोभप्रकाराणां विरमणं शौचमित्युच्यते। भूतव्रत्यनुकम्पादानसरागसंयमादि
१ कारणं आ०, ब०, ज० । २ प्रोकानि आ०, ब०, ज० । ३ -लतया पाप- आ०, ब०, ज०।४-राीचि-ता० ।
For Private And Personal Use Only