________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२० तत्त्वार्थवृत्तौ
[ ६।११ गाथोक्तलक्षणदशप्राणवियोगकरणमित्यर्थः। परिदेव्यते परिदेवनं सङ्क्लेशपरिणामविहितावलम्बनं स्वपरोपकाराकाङ्क्षालिङ्गम् अनुकम्पाभूयिष्ठं रोदनमित्यर्थः। दुःखंच शोकश्च तापश्चाक्रन्दनं च वधश्च परिदेवनं च दुःखशोकतापाक्रन्दनवधपरिदेवनानि । आत्मा च परश्च
उभयश्च आत्मपरोभयास्तेषु तिष्ठन्तीति आत्मपरोभयस्थानि। एतानि षट् कर्माणि कोपाद्या५ वेशवशात् आत्मस्थानि परस्थानि उभयस्थानि च असद्वेद्यस्य दुःखरूपस्य कर्मणः आस्रवनिमित्तानि भवन्तीति वेदितव्यम् । ननु शोकादयः पश्चापि दुःखमेव, तेन 'दुःखमात्मपरोभयस्थमसद्वेद्यस्य' इति सूत्रं क्रियतां किं शोकादिग्रहणेन ? इत्याह-साधूक्तं भवता; यद्यपि शोकादयो दुःखमेव वर्तन्ते, तथापि कतिपयविशेषकथनेन दुःखजातेरनुविधानं विधीयते
अनुकरणमुच्यते इत्यर्थः। यथा गौरित्यभिहिते अनिर्माते विशेष सति गोविशेषकथनार्थ १० खण्डमुण्डशुक्लकृष्णाद्युपादानं विधीयते तथा दुःखविषयाश्च विशेषा असंख्येयलोकभेदसम्भवा अपि कतिपया अत्र निर्दिश्यन्ते तद्विवेकप्रतिपत्त्यर्थमित्यर्थः । ____ अत्र किश्चिद् विधीयते चर्चनम्-चेद् दुःखादीन्यात्मपरोभयस्थान्यसद्वेद्यास्रवकारणानि वर्तन्ते तर्हि आहतैः केशोत्पाटनम् उपवासादिप्रदानम् आतापनयोगोपदेशनं सर्वमित्यादिकमा
चरणं दुःखकारणमेवास्थीयते प्रतिज्ञायते भवद्भिः तर्हि आत्मपरोभयान प्रति किमित्युप १५ दिश्यते ? साधूक्तं भवता, अन्तरङ्गक्रोधावेशपूर्वकाणि दुःखशोकादीनि असद्वेद्यास्रवकारणानि
भवन्ति, क्रोधाद्यावेशाभावान्न भवन्ति विशेषोक्तत्वात्। यथा कश्चिद्वैद्यः परमकरुणाचित्तस्य मायामिथ्यादिनिदानशल्यरहितस्य संयमिनो मुनेरुपरि गण्डं पिटकं विस्फोटं५ शस्त्रेण पाटयति तच्छत्रपातनं यद्यपि दुःखहेतुरपि वर्तते तथापि भिषग्वरस्य बाह्यनिमित्तमात्रादेव
कोपाद्यावेशं विना पापबन्धो न भवति, तथा संसारसम्बन्धिमहादुःखाद्भोतस्य मुनेः २० दुःखनिवृत्त्युपायं प्रति सावधानचित्तस्य शास्त्रोक्ते कर्मणि प्रवर्तमानस्य सङ्क्लेशपरिणामरहितत्वात् केशोत्पाटनोपवासादिदानदुःखकारणोपदेशेऽपि पापबन्धो न भवति । तथा चोक्तम् -
“न दुःखं न सुखं यवद्धतुर्दृष्टश्चिकित्सिते । चिकित्सायां तु युक्तस्य स्याद् दुःखमथवा सुखम् ।। १॥ न दुःखं न सुखं तद्वद्धतुर्मोक्षस्य साधने ।'
मोक्षोपाये तु युक्तस्य स्याद् दुःखमथवा सुखम् ॥ २॥"[ ] एतस्य श्लोकद्वयस्य व्याख्यानम्-यथा चिकित्सिते रोगचिकित्साकरणे हेतुः शस्त्रादिकः स स्वयं दुःखं न भवति सुखं च न भवति कस्मादचेतनत्वादित्यर्थः, चिकित्सायां तु प्रतीकारे प्रवृत्तस्य वैद्यस्य दुःखम् अथवा सुखं स्यादेव । कथम् ? यदि वैद्यः क्रोधादिना शस्त्रेण
१-कारका- आ०, ब०, ज० । २ विविधविषयसू च अ- आ०, २०, ज० । ३ -क्तवान् य- आ०, ब०, ज०। ४ -करुणानिचिंतस्य आ०, ब०, ज०। ५ -टकं आ०, व०, ज० । ६-देशोपि भा०, व०, ज० । ७ उद्धृतौ इमौ स० सि० ६.११ । ।
For Private And Personal Use Only