SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६।११] षष्ठोऽध्यायः २१९ ननु तच्छब्देन ज्ञानदर्शने कथं लभ्येते पूर्व ज्ञानदर्शनयोरनिर्देशात् ? सत्यम् "श्रौतानुमितयोः श्रौतसम्बन्धी विधिर्चलवान्" [ ] इति' परिभाषासूत्रबलात् तच्छब्देन ज्ञानं दर्शनं च लभ्यते । ज्ञानदर्शनावरणयोरिति सूत्रे शब्दश्रवणात् तेन पूर्वसूत्रोक्तनिर्वर्तनादिकं न शङ्कनीयम् । केनचिदुक्तम् ज्ञानदर्शनावरणयोरानवाः के इति प्रश्ने उत्तरं दीयते तत्प्रदोषादय इति ज्ञानदर्शनयोः प्रदोषादय इति । एते प्रदोषादयः ज्ञाने ५ कृता अपि दर्शनावरणस्यापि कारणं भवन्ति एकहेतुसाध्यस्य कार्यस्य अनेकस्य कार्यस्य दर्शनात् । अथवा ये ज्ञानविषयाः प्रदोषादयः ते ज्ञानावरणस्य कारणं ये तु दर्शनविषयाः प्रदोषादयस्ते तु दर्शनावरणहेतवो ज्ञातव्याः। तथा ज्ञानावरणस्य कारणम् आचार्ये शत्रुत्वम् , उपाध्याय प्रत्यनीकत्वम् , अकाले अध्ययनम् , अरुचिपूर्वकं पठनम् , पठतोऽप्यालस्यम् , अनादरेण व्याख्यानश्रवणम् , प्रथमानुयोगे वाच्यमाने अपरानुयोगवाचनम् तीर्थोपरोध १० इत्यर्थः, बहुश्रुतेषु गर्वविधानम् , मिथ्योपदेशश्च, बहुश्रुतापमाननम् , स्वपक्षपरिहरणं परपक्षपरिग्रहः तदेतद्वयं तार्किकदर्शनार्थम् ख्यातिपूजालाभार्थम् , असम्बद्धः प्रलापः, उत्सूत्रवादः, कपटेन ज्ञानग्रहणम् , शास्त्रविक्रयः, प्राणातिपातादयश्च ज्ञानावरणस्य आस्रवाः । तथा दर्शनावरणस्य आस्रवाः देवगुर्वादिदर्शनमात्सर्यम् , दर्शनान्तरायः, चक्षुरुत्पाटनम् , इन्द्रियाभिमतित्वम् , निजदृष्टेगौरवम् , दीर्घनिद्रादिकम् , निद्रा, आलस्यम् , नास्तिकत्वप्रतिग्रहः, १५ सम्यग्दृष्टेः सन्दूषणम् , कुशास्त्रप्रशंसनम् , यतिवर्गजुगुप्सादिकम् , प्राणातिपातादयश्च दर्शनावरणस्य आस्रवाः। अथ वेदनीयं कर्म द्विविधं वर्तते सद्वेद्यमसद्वेद्यं च । सवेद्यं सुखकरम् , असवेद्यं दुःखकरम् । तत्र असद्वेद्यस्य कारणानि सूचयत्सूत्रमिदमाहुःदुःखशोकतापाक्रन्दनवधपरिदेवनान्यात्मपरोभयस्थान्य सद्यस्य ॥ ११ ॥ दुःखयतीति दुःखं वेदनालक्षणः परिणामः, शोचनं शोकः चेतनाचेतनोपकारकवस्तुसम्बन्धविनाशे वैक्लव्यं दीनत्वमित्यर्थः, तापनं तापः निन्दाकारणात् मानभङ्गविधानाच्च कर्कशवचनादेश्वसञ्जातः आविलान्तःकरणस्य कलुषितचित्तस्य तीव्रानुशयोऽतिशयेन पश्चात्तापः खेद इत्यर्थः । आक्रन्द्यते आक्रन्दनं परितापसञ्जातवाष्पपतनबहुलविलापादिभिर्व्यक्तं प्रकटम् २५ अविकारादिभिर्युक्तं क्रन्दनमित्यर्थः । हननं वधः । "पंच वि इंदियपाणा मनवचकाएण तिण्णि बलयाणा । आणप्पाणप्पाणा आउगपाणेण होंति दस पाणा ॥१॥" [बोधपा० ५३] इति १ "श्रुतानुमितयोः श्रौतो विधिबलीयान्”- न्यायसं० पृ० ६९ । परिभाषेन्दु० परि० ११३ । २ ध्याय प्रत्य- आ०, ब०, ज० । ३ प्राणिनिपा- आ०, ब०, ज० । ४ अविला- आ०, ब०, ज० । ५ बहुविला- आ०, ब०, ज० । ६ दह पा- आ०, ब०, ज० । For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy