________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१८ तत्त्वार्थवृत्ती
[ ६।१० परमिति गृहीतम्। तत्र निर्वर्तनाधिकरणं द्विभेदं यदुक्तं तत्किम् ? मूलगुणनिर्वर्तनाधिकरणम, उत्तरगुणनिर्वर्तनाधिकरणं चेति निर्वर्तना द्विभेदा । तत्र मूलगुणनिर्वर्तनाधिकरणं पञ्चभेदम्-शरीरं वाक् मनः प्राणाः अपानाश्चेति । उत्तरगुणनिर्वर्तनाधिकरणं काष्ठपाषाणपुस्तकचित्रकर्मादिनिष्पादनं जीवरूपादिनिष्पादनं लेखनञ्चेत्यनेकविधम्। निक्षेपश्चतुर्भेदः-अप्र५ त्यवेक्षितनिक्षेपाधिकरणं दुष्प्रतिलेखितनिक्षेपाधिकरणं सहसानिक्षेपाधिकरणम् अनाभोगनि
क्षेपाधिकरणं चेति । अनाभोग इति कोऽर्थः ? पुनरनालोकितरूपतया उपकरणादि स्थापनम् अनाभोग इत्युच्यते। संयोगो द्विभेदः- अन्नपानसंयोगाधिकरणम् उपकरणसंयोगाधिकरणं चेति । निसर्गस्त्रिभेदः-कायनिसर्गाधिकरणं वानिसर्गाधिकरणं मनोनिसर्गाधिकरणं चेति। एतच्चतुष्टयम् अजीवमाश्रित्य आत्मन आस्रव उत्पद्यते तेनाऽजीवाधिकरणमुच्यते ।
अथ सामान्यतया कर्मास्रव भेद उक्तः, अधुना सर्वकर्मणां विशेषेणास्रवा उच्यन्ते । तत्र ज्ञानावरणदर्शनावरणकर्मणोरास्रवभेदपरिज्ञानार्थं सूत्रमिदमाहुराचार्याःतत्प्रदोषनिलवमात्सर्यान्तरायासादनोपघाता ज्ञानदर्शनावरणयोः ॥१०॥
सम्यग्ज्ञानस्य सम्यग्दर्शनस्य च सम्यग्ज्ञानसम्यग्दर्शनयुक्तस्य पुरुषस्य वा त्रयाणां मध्ये अन्यतमस्य केनचित्पुरुषेण प्रशंसा विहिता, तां प्रशंसामाकर्ण्य अन्यः कोऽपि पुमान् पैशुन्य१५ दूषितः स्वयमपि ज्ञानदर्शनयोस्तद्युक्तपुरुषस्य वा प्रशंसां न करोति श्लाघनं न व्याहरति कत्थनं
नोच्चारयते तदन्तःपैशुन्यम् अन्तर्दुष्टत्वं प्रदोष उच्यते । यत् किमपि कारणं मनसि धृत्वा विद्यमानेऽपि ज्ञानादौ एतदहं न वेद्मि एतत्पुस्तकादिकमस्मत्पाद्यं न वर्तते इत्यादि ज्ञानस्य' यदपलपनं विद्यमानेऽपि नास्तिकथनं निह्नव उच्यते । आत्मसदभ्यस्तमपि ज्ञानं दातुं योग्यमपि
दानयोग्यायापि पुंसे केनापि हेतुना यन्न दीयते तन्मात्सर्यमुच्यते । विद्यमानस्य प्रबन्धन प्रवर्त२० मानस्य मत्यादिज्ञानस्य विच्छेदविधानम् अन्तराय उच्यते । कायेन वचनेन च सतो ज्ञानस्य विनयप्रकाशनगुणकीर्तनादेरकरणमासादनमुच्यते । युक्तमपि ज्ञानं वर्तते तस्य युक्तस्य ज्ञानस्य अयुक्तमिदमज्ञानमिति दूषणप्रदानम् उपघात उच्यते, सम्यग्ज्ञानविनाशाभिप्राय इत्यर्थः । ननु आसादनमेव उपघातः कथ्यते, पुनरुपघातग्रहणं व्यर्थमिदम् ; युक्तमुक्तं भवता ; विद्यमानस्य ज्ञानस्य यद्विनयप्रकाशनगुणकीर्तनादेरकरणं तदासादनम् , उपघातस्तु ज्ञानस्य अज्ञानकथनं २५ ज्ञाननाशाभिप्रायो वर्तते, कथमनयोर्महान् भेदो नास्ति ? प्रदोषश्च निह्नवश्च मात्सर्यश्च
अन्तरायश्च आसादनञ्च उपघातश्च प्रदोषनिह्नवमात्सर्यान्तरायासादनोपघाताः। तयोः ज्ञानदर्शनयोः । एते षट् पदार्थाः ज्ञानदर्शनावरणयोः ज्ञानावरणदर्शनावरणयोरालवा भवन्ति आस्रवकारणं भवन्ति । ज्ञानं च दर्शनं च ज्ञानदर्शने साकारनिराकाररूपे। अत्र विशेषज्ञापनं ज्ञानम् , सत्तावलोकनमात्रं दर्शनम् , तयोरावरणे ज्ञानदर्शनावरणे तयोः ज्ञानदर्शनावरणयोः ।
१ -स्थापितमना- आ०, ब०, ज०। २ कथनं नो- आ०, ब०, ज०। ३ करणं आ०, ब०, ज०। ४ -स्य अप- अ० ब०, ज०।
For Private And Personal Use Only