SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ६.९] षष्ठोऽध्यायः २१७ कृतकारितानुमताः । चत्वारः कषायाः । एतेषां गणनाया अभ्यावृत्तिः पुनःपुनर्गणना' सुचप्रत्ययेन सूच्यते । एकमेकं प्रत्येकशः इति वीप्सावचनम् । एकैकं प्रति व्यादीन् प्रापयेदित्यर्थः । तथाहि-क्रोधकृतकायसंरम्भः, मानकृतकायसंरम्भः, मायाकृतकायसंरम्भः लोभकृतकायसंरम्भः, क्रोधकारितकायसंरम्भः, मानकारितकायसंरम्भः, मायाकारितकायसंरम्भः, लोभकारितकायसंरम्भः, क्रोधानुमतकायसंरम्भः, मानानुमतकायसंरम्भः, मायानुमतकायसंरम्भः ५ लोभानुमतकायसंरम्भ इति द्वादशप्रकारः कायसंरम्भो भवति। एवं वाक्योगो द्वादशप्रकारः क्रोधकृतवाक्संरम्भः, मानकृतवाक्संरम्भः, मायाकृतवाक्संरम्भः, लोभकृतवाक्संरम्भः, क्रोधकारितवाक्संरम्भः, मानकारितवाक्संरम्भः, मायाकारितवाक्संरम्भः लोभकारितवाक्संरम्भः, क्रोधानुमतवाक्संरम्भः, मानानुमतवाक्संरम्भः, मायानुमतवाक्संरम्भः, लोभानुमतवाक्संरम्भ इति द्वादशप्रकारो वाक्संरम्भः। क्रोधकृतमनःसंरम्भः, मानकृतमनःसंरम्भः, १० मायाकृतमनःसंरम्भः, लोभकृतमनःसंरम्भः, क्रोधकारितमनःसंरम्भः, मानकारितमनःसंरम्भः, मायाकारितमनःसंरम्भः, लोभकारितमनःसंरम्भः, क्रोधानुमतमनःसंरम्भः, मानानुमतमनःसंरम्भः, मायानुमतमनःसंरम्भः, लोभानुमतमनःसंरम्भः इति द्वादशप्रकारो मनःसंरम्भः। एवं षट्त्रिंशत्प्रकारः संरम्भः, तथा षट्त्रिंशत्प्रकारः समारम्भः, तथा षट्त्रिंशत्प्रकार आरम्भः एवमष्टोत्तरशतप्रकारः जीवाधिकरणास्रवो भवति । चकारः किमर्थम् ? १५ अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानसज्वलनकषायभेदकृतान्तर्भेदसमुच्चयार्थः । अथाऽजीवाधिकरणभेदपरिज्ञानार्थ सूत्रं सूचयन्तिनिर्वत निक्षेपसंयोगनिसर्गा द्विचतुर्द्वित्रिभेदाः परम् ॥ ९ ॥ निवर्तते निष्पाद्यते निर्वर्तना निष्पादना। निक्षिप्यते स्थाप्यते यः स निक्षेपः स्थापना। संयुज्यते मिश्रीक्रियते संयोगः। निःसृज्यते प्रवर्तते निसर्गः प्रवर्तनम् । निवर्तना २० च निक्षेपश्च संयोगश्च निसर्गश्च निवर्तनानिक्षेपसंयोगनिसर्गाः। द्वौ च चत्वारश्च द्वौ च त्रयश्च द्विचतुर्द्धित्रयः, ते भेदाः येषां निर्वर्तनानिक्षेपसंयोगनिसर्गाणां ते द्विचतुद्वित्रिभेदाः । पिपर्ति पूरयति परभागमिति परम् । अस्यायमर्थः-निवर्तना द्विभेदा द्विप्रकारा। निक्षेपश्चतुर्भेदः चतुःप्रकारः । संयोगो विभेदो द्विप्रकारः । निसर्गस्त्रिभेदः त्रिप्रकारः। एते चत्वारो भेदाः परम् अजीवाधिकरणं भवन्ति । ननु पूर्व सूत्रे आद्यमित्युक्ते जीवाधिकरणं लब्धम् , २५ अजीवाधिकरणन्तु अवशिष्टं स्वयमेव लभ्यते, तेन 'निर्वर्तनानिक्षेपसंयोगनिसर्गा द्विचतुर्द्वित्रिभेदाः' इत्येवं सूत्रं क्रियताम् किमनर्थ केन परशब्दग्रहणेन ? इत्याह-सत्यमुक्तं भवता; परमित्युक्ते संरम्भादिभ्यो निर्वर्तनादिकचतुष्टयं परमन्यत् भिन्नम् इत्यर्थः, अन्यथा जीवाधिकरणाधिकारात् निर्वर्तनादयश्चत्वारोऽपि जीवपरिणामा भवन्तीति भ्रान्तिरुत्पद्यते, तदर्थ १ -णनं सु-सा० । २-त्याचार्या:आ०, ब०, ज०।३ -करणं ननु आ०, २०, ज० । २८ For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy